________________
रायपसेणइयं ।
॥१३२॥
Jain Education Inmat
सर्कुहरगुंजतवंस-तंती-तेल-ताल-लय- गैहसुसंपत्तं महुरं समं सललियं मँणोहरं मिड
कण्ठशुद्धम् शिरोविशुद्धं च तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धम् स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धम् यदि पुनः शिरःप्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धम् यदि वा यत उरः-कण्ठ| शिरोभिः श्लेष्मणा अव्याकुलितैर्विशुद्वैर्गीयते तत उरः-कण्ठ- शिरोविशुद्धत्वात् त्रिस्थानकरणविशुद्धम् तथा ९ सकुहरो गुञ्जन् यो वंशो ये च तन्त्री - तल-ताल-लयग्रहाः तेषु सुष्ठु अतिशयेन संप्रयुक्तम्- सकुहरगुञ्जद्वंश-तन्त्री - तल-ताल-लय-ग्रहसंप्रयुक्तम् किमुक्तं ५ भवति । सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायाम् यद् वंश-तन्त्रीखरेग अविरुद्धं तत् सकुहरगुञ्जद्वंश-तन्त्री सुसंप्रयुक्तम् तथा १० परस्परहतहस्ततलखरानुवर्ति यत् तत् तलसंप्रयुक्तम् ११ यद् मुरज- कंशिकादीनामातोद्यानाम् आहतानां यो ध्वनिः पादोत्क्षेपो (१) | यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपः तेन समं तत् तालसुसंप्रयुक्तम् तथा १२ शृङ्गमयो दारुमयो दन्तमयो वा यः - अङ्गुलिकौशिकः | | तेन आहतायास्तन्त्र्याः खरप्रकारो लयः, तम् अनुसरद् गेयलयसुसंप्रयुक्तम् तथा १३ यः प्रथमं वंश-तन्त्र्यादिभिः खरो गृहीतः तन्मा |र्गानुसार ग्रहसुसंप्रयुक्तम् तथा १४ मधुरखरेण गीयमानं मधुरं को किलारुतवत् तथा १५ तल - वंशखरादिसमनुगतं समम् १६ यत् २० | स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन ललनेन वर्तते इति सललितम् यदि वा यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममु | त्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् - इति १७ अत एव मनोहरम् पुनः कथंभूतम् : इत्याह- १८ तत्र मृदुर्मृदुना खरेण * “ध्वनिः यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपः तेन” इत्यादि - जीवा० वि०प्र० पृ० १९५ पं० ९ । पादूक्षेपो-पा० ४ भा० १ । पाहूक्षेपो-पा० ५ । पदूत्क्षेपी- भा० २ ।
For Private & Personal Use Only
ainelibrary.org