Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२६ यस्याः सा न्यस्तचिह्ना, तां तथाभूतामपि । विशेष्यते इति विशेषः । तेजसो विशेष: तेजोविशेषः । अनुमीयते स्मेति अनुमिता । तेजोविशेषेण-प्रभावातिशयेन अनुमिता तेजोविशेषानुमिता, तां तेजोविशेषानुमिताम् - प्रतापातिशयतर्किताम् । सर्वथा राजा इवाऽयं भवेदित्यूहिताम् । राज्ञः लक्ष्मीः राजलक्ष्मी:, तां राजलक्ष्मीम् । धत्तेऽसौ दधानः । स राजा । आविष्क्रियते स्मेति आविष्कृता, न आविष्कृता अनाविष्कृता । दानस्य राजिः दानराजिः । अनाविष्कृता दानराजिर्येन स अनाविष्कृतदानराजि:-बहिरप्रकटितमदरेखः । "गण्डः कटो मदो दानम्" इत्यमरः । मदस्य अवस्था मदावस्था । अन्तर्गता मदावस्था यस्य स अन्तर्मदावस्थः । तथाभूतोऽभ्यन्तरदानदशः । द्वाभ्यां शुण्डतुण्डाभ्यां पिबन्तीति द्विपाः । इन्दतीति इन्द्रः । द्विपानामिन्द्रः द्विपेन्द्रः । इव यथा ! समदभद्रजातीयो गजपतिरिवेत्यर्थः । "द्विरदोऽनेकपो द्विपः, मतङ्गजो गजो नागः" इत्यमरः ।
वाच्यपरिवर्तनं त्वेवम् - तेन (राज्ञा) न्यस्तचिह्नामपि तेजोविशेषानुमितां राजलक्ष्मीं दधानेन (सता) अनाविष्कृतदानराजिना अन्तर्मदावस्थेन द्विपेन्द्रेणेवाऽभूयत ॥
समदभद्रजातीयो गजपतिर्यद्यपि मदवारिभिरन्तर्गतां निजां मदावस्थां न प्रकटीकरोति, तथाऽपि तस्य तेजःशालिना मूतिवि(तिवि)शेषेण यथा मनुष्यस्तां मदावस्थां निश्चेतुं समर्थो भवति; तथा स दिलीपो व्रतबन्धाद्यद्यपि छत्रचामरालङ्कारादिभिः निजां राजलक्ष्मी नाऽधत्त, तथाऽपि तस्य प्रभावशालिना मूर्तिविशेषेणैव जनस्तस्य राज्यश्रियमनुमातुं शशाक, इति सरलार्थः ।।७।।
लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥८॥
लतेति । अत्र प्रतानशब्दस्य भावघजन्तत्वाभावान्न पुंस्त्वमेव । 'वेदाः प्रमाण'मितिवत्सामान्यविवक्षायां प्रतन्यते एभिरिति करणे नपुंसकत्वमपि । अथवा 'विशेष्यलिङ्गानुसारित्वा'दत्र पुंस्त्वमपि । प्रतन्यते इति प्रताना इति व्युत्पत्ती पुंस्त्वमपि ।
लतानां-वल्लीनां प्रतान:(नाः) प्रतानानि वा लताप्रतानाः लताप्रतानानि १. अम० द्वि० क्षत्रियवर्गे - १५४१ । २. अम० द्वि० क्षत्रियवर्गे - १५३५-३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93