Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 80
________________ December - 2003 इति 'श्रीसि०'सूत्रेण 'क्वसुश्च' [३१२११०७।।] इति 'पा०' सूत्रेण च कसौ 'घसेकस्वरातः कसो:' (४।२।८२॥) इति ['श्रीसि०' सूत्रेण] 'वस्वेकाजादघसाम्' [७।२।६७॥] इति 'पा०' सूत्रेण च आदेरिटि वसुप्रत्यये तस्थिवान्, तं तस्थिवांसम्-स्थितम् । केसराः स्कन्धसटा: सन्त्यस्येति केसरशब्दादिनि केसरी-सिंहाः । "सिंहः कण्ठीरवो हरिः, हर्यक्ष: केसरि(री)भारिः पञ्चास्यो नखरायुधः, महानादः पञ्चशिख: पारीन्द्रः पत्यरी मृगात्; श्वेतपिङ्गोऽपि" इति हैम: । सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभ: कान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेषः । “केसरी पुं० सिंहे, अश्वे, पुंनागवृक्षे, नागकेसरवृक्षे, बीजकपूरवृक्षे, हनुमत्पितरि, वानरभेदे, च" । तं केसरिणं -सिंहम् । सनति मृगादीन् सनोति वा सुखमिति ‘कृ-वा-पा-जि-स्विदि-साध्यशौदृ-स्रा-सनि-जा-निरहीणभ्य उण' ॥१॥ इति 'उणादिश्रीसि०' सूत्रेण 'षणभक्तौ "धणूयी-दाने' वेति धातोः उपप्रत्यये, 'पा०' मते अ॒प्रत्यये सानुपर्वतैकदेशः । “स्तुः प्रस्थं सानुः" इति हैमः । पुंक्लीबलिङ्गः । “पर्वतस्थे समभूमिदेशे, प्रस्थे, वने, वातसमूहे, पथि, अग्रे, कोविदे, अर्के, पल्लवे च" | अत्र पर्वतस्थसमभूमिप्रदेशार्थः । सानूनि सानवो वा सन्त्यस्येति सानुशब्दात् तदस्याऽस्तीति मतुपि सानुमान् पर्वत: । "शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभू-भूधरधराहार्या नगः" इति हैम: । “गिरौ प(प्र)पाती कुट्टम(ट्टार) उर्वङ्गः कन्दराकरः" इति हैमशेषः । तस्य सानुमतः - अद्रेः । दधाति पीतत्वमिति 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसिसच्यवि-भा-धा-गा-ग्ला-स्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' ॥४(७)७३|| इति 'उणादिश्रीसि०' सूत्रेण 'डुधाङ्क-धारणे च' इति धातोः तुन्प्रत्यये धातुः१. अभि० चि० च० १२८३-८४-८५ । २. अभि० चि० हैमशेषे - १८४-८५ । ३. अभि० चि० च ० १०३५ । ४. अभि० चि० च० १०२७ । ५. अभि० चि० हैमशेषे - १५८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93