Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 78
________________ December - 2003 "वेहद् वृषोपगा" इति हैमः । "वेहद् गर्भोपघातिनी" इत्यम॑श्च । अपप्रसववती मृतवत्सा स्रवदर्भा साऽवतोका-५ । "अवतोका स्रवद्गर्भा" इति हैमः । "मृतवत्सा स्रवद्गर्भा" इति नाममाला ।। अकालदुग्धा वृषेणाऽऽकान्ता च सा सन्धिनी गर्भग्रहणवती-६। "वृषाकान्ता सु सन्धिनी" इति हैम: । “अदुग्धा दोहकाले तु सन्धिनी" इति कात्य: । "सन्धिन्यकालदुग्धा गौर्वृषाक्रान्ता च सन्धिनी" इति शाश्वतः । चिरप्रसूता प्रौढवत्सा सा बष्कयिणी-७ । "प्रौढवत्सा बष्कयिणी" इति हैमः । प्रत्यग्रप्रसूतिको सा धेनुः-८ । “धेनुस्तु नवसूतिका" इति हैमः । बहुप्रसूतिः सा परेष्टुं-९ । “परेष्टुर्बहुसूतिः स्यात्" इति हैम: । एकशः प्रसूतिका गृष्टिः१० । "गृष्टिः सकृत्प्रसूतिका" इति हैम: । प्रातर्गर्भग्रहणवती सा काल्या-११ । "प्रजने काल्योपसर्या" इति हैम: । सुखेन दोहनीया सा सुव्रता-१२ । “सुखदोह्या तु सुव्रता इति हैमः । दुःखेन दोहनीया सा करटा-१३ । “दुःखदोह्या तु करटा" इति हैम: । बहुदुग्धवती सा[वञ्जुला] द्रोणदुधा-१४ । "द्रोणदुग्धा द्रोणदुघा" इति हैम: । पुष्टस्तनवती सा पीनोघ्नी-१५ । "पीनोघ्नी पीवरस्तनी" इति हैमः । पीतदुग्धा सा धेनुष्या-१६ । "पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति हैमः । सर्वासु गोषूत्तमा सा नैचिकी । "नैचिकी तूत्तमा गोषु" इति हैमः । बालगर्भवती सा पलिक्नी । “पलिक्नी बालगर्भिणी" इति हैमः । प्रतिवर्ष प्रसववती सा समांसमीना । "समांसमीना तु सा या प्रतिवर्ष विजायते" इति हैमः । एवमादयोऽनेके भेदाः । १. अभि० चि० च० १२६६ । २. अम० द्वि० वैश्यवर्गे - १८४५ । ३. अभि० चि० च० १२६७ । ४. अभि० चि० च० १२६७ । ५. अभि० चि० च० १२६७ । . ६. अभि०चि०च० १२६७ । ७. अभि० चि० च० १२६८ । ८, अभि० चि० च० १२६८ । ९. अभि० चि० च० १२६८ । १०. अभि० चि० च० १२६८ । ११. अभि० चि० च० १२६९ । १२. अभि० चि० च० १२६९ । १३. अभि० चि० च० १२६९ । १४. अभि० चि० च० १२७० । १५. अभि० चि० च० १२७० । १६. अभि० चि० च० १२७० । १७. अभि० चि० च० १२७१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93