Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
९४
मनुरप्याह
यज्ञार्थं पशवः सृष्टा स्वयमेव स्वयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥१॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥२॥ एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविद् द्विज: । आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥३॥ सर्वमेतदसमञ्जसम् ' मा हिंस्यात् सर्वभूतानि' इत्यस्यैव सर्वैरप्युद्घोषितत्वात् । मांसस्याऽपि हिंसामन्तरेण नोपपत्तिः, अतो मांसभक्षकोऽपि हिंसक
एव । यत उक्तम्
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ १ ॥
अनुसंधान- २६
तथा च
नियुक्तस्तु यथान्यायं यो मांसं नाऽत्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ||१|| या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ||२|| इति । मांसभक्षणस्वारसिकत्वेन यत्तैरुक्तम्
न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥१॥
अस्य श्लोकस्य व्याख्यानं केचिदेवं कुर्वन्ति यज्ञे मांसभक्षणकरणेन, सौत्रामणियज्ञे मद्यपानकरणेन, ऋतुसमये धर्मपत्नीसमागमनेन दोषो नाऽस्ति, प्राणिनां प्रवृत्तिरेवैषेति कृत्वा, तथाऽपि निवृत्तेर्महाफलवत्त्वम् । अयं भावः - यज्ञ - सौत्रामणियज्ञऋतुसमयातिरिक्ते सर्वत्राऽपि स्थले दोषः ।
केचित्त्वेवं व्याख्यान्ति यज्ञे उच्छिष्टमांसभक्षणेन, सौत्रामणियागे मद्यपानेन, ऋतुं विनाऽपि स्वस्त्रियं प्रति गमनेन दोषो नाऽस्ति, तथाऽपि तन्निवृत्तेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93