Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
कनकावदातम्' । ओघे यथा 'निःशेषविश्राणितकोशजातम्' । जनिर्जन्म । संपन्नेऽपि द्वयोर्यथा 'जाते पुत्रस्य जाते समजनि वनिता वल्लभा भूमिभर्तुः' । पुत्रेऽपीति मङ्खः । यथा-'जातलक्ष्मणपवित्रितं त्वया' इति तद्वृत्तिः । “जात नपुं० समूहे, व्यक्ते, जन्मनि च; उत्पन्ने प्रशस्ते च त्रिलिङ्गः" । अत्र तूत्पन्नार्थः । अभिपूर्वात् सञ्जधातोर्घजि अभिसञ्जनम् । "अभिषङ्गः पुं० पराभवे, आक्रोशे, शपथे, व्यसने च" । “अभिषङ्ग जडं विजज्ञिवान्" इत्यग्रे रघुः । जातः अभिषङ्गः पराभवो यस्य स जाताभिषङ्गः-जातपराभवः सः । “अभिषङ्गः पराभवे" इत्यमरः ।
वधमर्हतीति ‘दण्डादेयः' ।६।४।१७८॥ इति 'श्रीसि०' सूत्रेण 'दण्डादिभ्य(भ्यो) [यत्' ५१६६॥] इति 'पा०' सूत्रेण च वधशब्दात् यप्रत्यये वध्यः, तस्य वध्यस्य वधार्हस्य-मृगाणामिन्द्रः मृगेन्द्रः, तस्य मृगेन्द्रस्य-सिंहस्य । हननमिति ‘हनो वा वध् च' (५।३।४६॥) इति 'श्रीसि०' सूत्रेण हन्धातोः अलप्रत्यये वधादेशे च वधः-व्यापादनम् । "व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्, निस्तहणं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रतिघातनं वधः; प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्ति-निशुम्भहिंसाः, निर्वापणालम्भनिषूदनानि निर्यातनोन्मन्यसमापनानि; अपासनं वर्जनमारपिञ्जा निष्कारणकाथ विशारणानि" इति हैम: । "वधो हिंसकहिंसयोः" इत्यनेकार्थसङ्ग्रह: । तस्मै वधाय-हिंसायै ।
जैनमते "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" । मुनीनां सा सर्वतो मनोवाक्कायैः करणकारणानुमतिभिः सर्वथा त्रसस्थावराणां सर्वेषामपि त्याज्या, अत एव तेषां विंशतिविंशोपकरूपाऽहिंसा । गृहस्थानां तु देशतः सा, अत एव तेषां सपादविंशोपकलक्षणाऽहिंसा । यथा हिंसाहिंसास्वरूपं जैनमते तथा न बौद्धमते वेदान्त्यादिमते च । यथा च ते आहुः
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोग: पञ्चभिरापद्यते हिंसा ॥ इति बौद्धाः ।
१. अम० तृ० नानार्थवर्गे - २३८२ । २. अभि० चि० तृ० ३७०-७१-७२ । ३. अनेकार्थसंग्रहे द्वि० २४३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93