________________
December 2003
अयं भावः- अल्लानामेश्वरेण चतुष्पदेषु कतिचिद्भारोद्वहनाय सृष्टाः । भक्षणाय च भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद्यूयमद्यात ।
अपि च तस्मिन्नेव सूरा -अन- आगमप्रकरणे रुधिरमांसभक्षणनिषेध उक्तः । बकरी इद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः हुशनग्रन्थस्य सुराहज्जविभागस्य षट्त्रिशे आयातनामके प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेणोक्तः । तेन स्वयं तत्र प्रतिपादितं -मांसं शोणितं वा न मां मिलिष्यति, अपि तु निवृत्त्या प्रार्थनयैव वाऽहं तुष्टो भविष्यामि । अपि चाऽद्याऽपि यदा कोऽपि महम्मदीयः शालेक (कः) शरीयतप्रदेशात् टरपीटप्रदेशं प्रविशति तदा सोऽपि मांसादनस्य दूषितत्वात् मांसभक्षणात् त्वरितमेव निवर्तते ।
आङ्ग्लभूमिजानामपि बाइबल नामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं यत्- "Thou shalt not kill ( Advice to Moses) | | अयं भावः - त्वं न कमपि जीवं हन्याः |
९९
पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं यत्- 'And ye shall be holy-man unto me neither shall ye eat any flesh that is torn of beasts in the fiedls.
अयं भावः- त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं नाऽद्या: ।
बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं यत्
"The Primitive injunction of God to man at the creation was Behold I have given you every harb bearing Beed, which is upon the face of all the earth. and every tree in which is the fruit of a tree yeilding seed to you it shall be for meat ( Gen. 1-29)
अयं भावः - परमेश्वरेण मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, 'अवहितव्यं भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजा: वल्ल्यादयः सबीजफला वृक्षाश्चाऽर्पितास्तदेव भवद्भक्षणायाऽलम् । भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः ।
तथैव हुसीयानामक पुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org