Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 1
________________ अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ १ ॥ अथेति । अथ कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरम् । कुलपतिस्वरूपं चेदं पुराणे १. आचार्य श्रीविजयनेमिसूरिविरचिता रघुवंश द्वितीयसर्गटीका || ३. - * प्रकर्षेण भातीति प्रभातं, यदि वा भातुं प्रवृत्तं प्रभातम् । 'भांक्-दीप्तौ' इति धातो: 'आरम्भे' (सि. ५|१|१०|) इति 'क्त' प्रत्यये सिद्धम् । 'पाणिनि' मते तु 'भा- दीप्तौ' धातो: ' आदिकर्मणि (१) कर्तरि च ' ( ३|४|७१ || ) इति सूत्रेण 'क्त' प्रत्यये प्रभातम् । " प्रभातं स्यादहर्मुखम्, व्युष्टं विभातं प्रत्यूषं कल्यप्रत्यू (त्यु)षसी उषः, काल्यम् ॥ इति हैम:' । तस्मिन् प्रभाते- प्रात: काले । यश एव धनं यस्य स यशोधनः । प्रकर्षेण जायन्त इति, प्रजाता इति वा प्रजा: । प्रपूर्वात् 'जनैचि - प्रादुर्भावे' इति धातो: 'क्वचित्' (५|१|१७१||) इति 'हम' सूत्रेण 'ड' प्रत्यये ‘डित्यन्त्यस्वरादे: ' (२|१|११४||) इति 'हेम' सूत्रेणाऽन्त्यस्वरादिलोपे 'आत्' (सि० (२|४|१८|| ) इति सूत्रेण । 'ड' प्रत्यये 'टे:' (पा० ६ |४|१४३ || ) इति सूत्रेण टिलोपे ! 'अजाद्यतष्टाप्' (पा० ४|१|४|| ) इति सूत्रेण टापि प्रजा: । "लोको जनः प्रजा" इति हैम: २ । "प्रजा स्यात्सन्ततौ जने" (इत्यमर: ) । तासां प्रजानाम् । अधि पाति, अधि समन्तात् पातीत्यधिपः प्रजेश्वरः । अधिपूर्वात् 'पा(पां)क्- 2- रक्षणे' इति धातो: 'उपसर्गादातो डोऽश्यः ' [ सि० ] ( ५ | १|५६ ||) इति सूत्रेण 'ड' प्रत्यये 'डित्यन्त्यस्वरादे: ' [ सि० ] ( २|१|११४ || ) इत्यन्त्य सं. मुनिधर्मकीर्तिविजय " मुनीनां दशसाहस्त्रमन्नदानादिपोषतः (षणात्) । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ शा" Jain Education International अभिधानचिन्तामणिकोशे द्वितीयकाण्डे १३८-१३९ । अभिधानचिन्तामणिकोशे तृतीयकाण्डे - ५०१ । अमरकोशे तृतीयकाण्डे नानार्थवर्गे २३९८ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 93