Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ December 2003 १७ पातञ्जलयोगदर्शनवृत्तौ कृता । बन्धनं बन्धः । आसनस्य बन्धः आसनबन्धः । धिया राजते, धियं राति ददाति गृह्णाति वा ईरयति ईरति वा प्रेरयति गमयति वा धीरः । न च 'शंक्- दाने' इत्येव सर्वत्र धातुपाठे दर्शनात्कथं ग्रहणरूपोऽर्थः इति वाच्यम् । 'रातुं वारणमागतः' इति प्रयोगदर्शनेन कस्यचिन्मते आदानरूपार्थस्याऽपि सत्त्वात् । तथोक्तं हेमचन्द्रसूरिकृते धातुपारायणे क्रियारत्नसमुच्चये च आदाने इति कश्चित् इति । 'ईरण्-क्षेपे', क्षेप: प्रेरणम् । 'गत्यादावपीति केचित्' इत्यस्य चुरादेरयं प्रयोगः । न तु 'ईरं (रिक) - गतिकम्पनयो 'रित्यस्याऽदादे: इ (ई) रयति इ (ई) रति इति प्रयोगकरणात् । अदादेस्तु ईर्ते इति प्रयोगः | - आसनबन्धे धीरः आसनबन्धधीरः । पद्मासनादिबन्धेऽथवा योगपट्टकसदृशे विनीतः बलयुतः पण्डितश्चेति भावः । आसनबन्धे - उपवेशने धीरः-स्थितउपविष्टः सन्नित्यर्थः इति केचित् । सत् जलमादत्तेऽसावाददाना, तां जलं पिबन्तीं सतीम् । हेमचन्द्रसूरिमते दीक्षितमते चाऽभिलषतीत्येवं शीलः अभिलाषी । जलस्याऽभिलाषी जलाभिलाषी । वृत्तिकारहरदत्तमाधवादिमते तु जलस्याऽभिलाषो जलाभिलाषः, सोऽस्याऽस्तीति जलाभिलाषी सन् । छाया इव- प्रतिबिम्बमिव । "छाया सूर्यप्रिया कान्तिः, प्रतिबिम्बमनातपः" इत्यमरः । अन्वगच्छत् अनुसृतवान् । वाच्यपरिवर्तने तु- भूपतिना स्थिता स्थितेन प्रयातोच्चलितेन निषेदुषी आसनबन्धधीरेण जलमाददाना जलाभिलाषिणा सता छाययेव साऽन्वगम्यत ॥ नन्दिनी यदा चलनाद्विरराम तदा नृपोऽपि विरराम, यदा चलितुमारेभे तदा नृपोऽपि तथा । यदा निषसाद तदा नृपोऽपि तथा, यदा जलं पपौ तदा नृपोऽपि जलमपिबत् । किं बहुना ? स भूपतिः सदा छायेव तामनुजगाम, इति सरलार्थः ||६|| स न्यस्तचिह्नामपि राजलक्ष्मी तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥७॥ स इति । न्यस्यन्ते स्मेति न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि १. अम० तृ० नानार्थवर्गे २६५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93