Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
दुधातो वे घञि दोहनं [वा] दोहः । अवसीयतेऽनेनेति अवसानम्। "आघाटस्तु घटोऽवधिः अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैमः । 'पाणि०' मते तु अवसाय: अवसानं नपुं०, अवपूर्वात् साधातो वे ल्युट्- "विरामे, समाप्तौ, सीमायां, मृत्यौ च" । अत्र तु समाप्त्यर्थः विरामार्थो वा । दोहस्याऽवसानं दोहावसानम्, तस्मिन् दोहावसाने । निषीदति स्मेति निषण्णा, तां निषण्णाम्-आसीनाम् । दोहनशीलां दोग्ध्रीम् । अत्र दुधातोस्तृन्प्रत्यये च स्त्रियां ङोपि दोग्ध्री । दोग्ध्रीमिति निरुपपदप्रयोगात् कामधेनुत्वं गम्यते ।
पुनातीति पु(पू)सन्यमिभ्यः पुनसनुतान्ताश्च ॥९४७॥ इति 'उणादिश्रीसि०' सूत्रेण अप्रत्यये पुनादेशे च द्वित्वे च पुनः पुनः । "भूयोऽभीक्ष्णं पुनः पुनः असकृन्मुहुः" इति हैमः । "पाणि." मते तु पणधातोररुप्रत्यये पृषोदरादित्वात् पुनः । अव्ययम् । "अवधारणे, भेदे, अधिकारे, पक्षान्तरे, द्वितीयवारे च" । अत्र तु द्वितीयवारार्थः । इण्धातोर्वति प्रत्यये एवाऽव्ययम्, “सादृश्ये, अनुयोगे, अवधारणे, चारनियोगे, विनिग्रहे, परिभवे ईषदर्थे च । विशेष्यसङ्गतोऽन्ययोगव्यवच्छेदे यथा- 'पार्थ एव धनुर्धर' इत्यादौ, पार्थान्यपदार्थे प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते । विशेषणसङ्गतोऽयोगव्यवच्छेदे यथा- 'शङ्ख पाण्डुर एवे' त्यादौ, शङ्के पाण्डुरत्वायोगो व्यवच्छिद्यते । क्रियासङ्गतोऽत्यन्तायोगव्यवच्छेदे यथा'नीलं सरोजं भवत्येवे'त्यादौ, सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते । गन्तरि त्रिलि० ।" अत्र तु अवधारणे । भेजे-सिषेवे ॥
वाच्यपरिवर्तनं त्वेवम् - भुजोच्छिन्नरिपुणा दिलीपेन सदारस्य गुरोः पादौ निपीड्य सान्ध्यं विधिं च समाप्य दोहावसाने निषण्णा दोग्ध्री पुनरेव भेजे ।।
अरिक्षयकर्ता दिलीप: आश्रमं समागत्य दम्पत्योः वसिष्ठारुन्धत्योः पादौ भक्त्या संवाह्य, मल्लिनाथमते तु पूर्व वसिष्ठमरुन्धती च भक्त्या ववन्दे । ततो निजं सायंकालिकमनुष्ठानं समाप्य दोहो(हा)वसाने सुखासीनां तां नन्दिनीमेव पुनः सेवितवान्, इति सरलार्थः ॥२३॥
१. अभि० चि० च० ९६२ । २. अभि० चि० ष० १५३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93