Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 58
________________ December - 2003 ६५ तनोति तनुते वेति तन्धातोः अदि डिति च तद्शब्द: त्रिलि० । "पूर्वोक्ते, बुद्धिस्थे, परामर्शयोग्ये, विप्रकृष्टविषये च; ब्रह्मणि नपुं०" । "औं तत्सत् इति निर्देशो ब्राह्मणः" इति गीता । तस्य-षष्ठ्येकवचने तस्य-दिलीपस्य । 'तृ-प्लवनतरणयोः धातोर्डिन्प्रत्यये तरन्तीति त्रयो बहुवचनान्तस्त्रिलि० त्रित्वसङ्ख्याविशिष्टे । स्त्रियां तिस्रादेशः, तिस्र इत्यादि । गुण्यते इति गुणः-उपसर्जनम् । "गुणोपसर्जनोपाग्राण्यप्रधाने" इति हैमः । गुण्यते अभ्यस्यते इति गुणः- रज्जुः मौर्वी च । “शुल्बं(म्बं) वराटको रज्जुः शुल्वं तन्त्री वही गुणः" इति [हैमः] । "मौर्वी जीवो(वा) गुणो गव्या शिञ्जा बाणासनं द्रुणा [शिञ्जिनी ज्या च]" इति च हैमः । 'पाणि०' मते तु गुण्धातोरचि घत्रि वा गुणः । “धनुषो मौा, धनुराकर्षणदामनि, रज्जुमात्रे । "सगुणोऽपि पूर्णकुम्भो यथा कूपे निमज्जती'त्युद्भटः । शौर्यादिधर्मे, राज्ञां सन्धिविग्रहादिषु, षट्सु साधनेषु । 'षाड्गुण्यमुपयुञ्जते' इति माघः । 'ज्ञानविनयादिषु गुणागुणानुबन्धित्वात्' इति रघुः । साङ्ख्यमते 'पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्त्वरजस्तमआदिषु पदार्थेषु' । 'प्रकृतेर्गुणसंमूढा सज्यन्ते गुणकर्मसु' इति गीता। अप्रधाने । न्यायमते रूपादिचतुर्विंशतिभेदभिन्ने पदार्थे । व्याकरणोक्ते 'सत्त्वे निविशतेऽवैति, पृथग्जातिषु दृश्यते' । 'आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृति: गुणः ।' इत्युक्ते द्रव्यमात्राश्रिते । द्रव्यभिन्ने उत्पाद्यानुत्पाद्यतासमानाधिकरणे, सिद्धधर्मे, वस्तुधर्मे । व्याकरणपरिभाषिते 'अदेङ् गुणः' इत्युक्ते अकारे एकारे ओकारे च । 'गुणोऽरेदोत्' इत्युक्ते अरि एकारे ओकारे च । अलङ्कारोक्तेषु माधुर्यादिषु । आवृत्तौ, तन्तौ, उत्कर्षे, दूर्वायां च । जैनमते सहभाविनि, पर्याये १. अभि० चि० ष० १४४१ । २. अभि० चि० तृ० ९२८ । ३. अभि० चि० तृ० ७७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93