Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२६ "रश्मौ वल्गाऽवक्षेपणी कुशा" इति हैमः । अश्नुते द्यामिति वा रश्मि:-- किरणः । "रोचिरुस्ररुचिशोचिरंशुगो ज्योतिचिरुपधृत्यभीशवः, प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः, पाद-दीधितिकर-द्युति-द्युतो रुग्विरोक-किरण-त्विषि-त्विषः, भा-प्रभा-वसु-गभस्ति-भानवो भा-मयूखमहसी छविविभा" इति हैमः । “रश्मिणिप्रग्रहयोः" इत्यनेकार्थसङ्ग्रहः । 'पा०' मते अश्धातोः मिप्रत्यये धातोरशादेशे च, यद्वा 'रश्-स्वने' धातोः मिप्रत्यये "रश्मिः पुं० किरणे, अश्वादिदामनि च; पद्मे नपुं० ।" "किरणप्रग्रहौ रश्मी" इत्यमरः । अत्र प्रग्रहार्थः । तेषु रश्मिषु । आदायेव गृहीत्वेव । निवर्तयामास-पर्वतावलोकनात् परावर्तयामास ।।
वाच्यपरिवर्तनं त्वेवम् गुहानिबद्धप्रतिशब्ददीर्घेण तदीयेनाऽऽकन्दितेन आर्तसाधोपस्य नगेन्द्रसक्ता दृष्टिः रश्मिष्वादायेव निवर्तयामास निवर्तयाञ्चके ।।
यथा सारथि: धावन्तमश्वं रश्मिभिराकृष्य निवर्तयति, तथैव सिंहाक्रमणेन गुहानिबद्धप्रतिशब्दत्वेनाऽतिदीर्घस्तस्याः क्रन्दनशब्दो राज्ञो दिलीपस्य पर्वतसक्तां दृष्टिं ततः परावर्तयामास, इति सरलार्थः ।।२८||
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥२९॥
[स इति ।] धन्यतेऽर्यते धमति शब्दायते ज्याघातेन वेति 'रुद्यर्तिजनितनि-धनि-मनि-ग्रन्थि-पृ-तपि-त्रपि-वपि-यजि-प्रादि-वेपिभ्य उस्' ।।९९७।। इति 'उणादिश्रीसि०' सूत्रेण 'धन्-धान्ये' इति सौत्राद्धातोः धम्धातोर्वा उस्प्रत्यये धनुः-चापम् । “धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम्, द्रुणाऽऽसौ" इति हैम: । धनुरुकारान्तोऽपि भवति, तत्राऽपि 'धन्-धान्ये' इति सौत्राद्धातो: 'भृ-मृ-तृ-त्सरि-तनि-धन्यनि-मनि-मस्जि-शी-वटि-कटि-पटि-गडिचञ्च्यसि-वसि-त्रपि-शृ-स्व-स्निहि-क्लिदि-कन्दीन्दि-विन्द्य-न्धि-बन्ध्यणि१. अभि० चि० च० १२५२ । २. अभि० चि० द्वि० ९९-१०० । ३. अनेकार्थसङ्ग्रहे-द्वि० ३२६ । ४. अम० तृ० नानार्थवर्गे - २६१० । ५. अभि० चि० तृ० ७७५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93