Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
इत्युक्तेषु अष्टसु,
'सुवर्णं रजतं तानं लौहं कुप्यं च पारदम् ।
रङ्गं च सीसकं चैव इत्यष्टौ देवसंभवाः' ।। इत्युक्तेषु अष्टसु वस्तुषु ।
लोकेषु सर्वसाधारणत्वात्परमेश्वरे ‘स एष चिद्धातुः' इति श्रुतिः, व्याकरणोक्ते -गणपठिते क्रियावाचके भूप्रभृतौ, शब्दभेदे च । इह तु गौरिकाद्यर्थः । धातोविकार इति धातुशब्दात् विकारार्थे मयटि 'दोरप्राणिनः' (६.२॥४९॥) इति 'श्रीसि०' सूत्रेण 'पा०' मते ते (तु) 'नित्यं वृद्धशरादिभ्यः' [४।३।१४४।।] इति सूत्रेण च 'अणमेयेकण्ननटिताम्' (२।४।२०॥) इति 'श्रीसि०' सूत्रेण 'टिड्ढाणद्धयसज्दघ्नमात्रन्तयप्ठक्ठकञ्चरपः' [४।१।१५॥] इति 'पा०' सूत्रेण च ङीपि धातुमयी। तस्यां धातुमय्यां-गैरिकादिधातुप्रचुरायाम्।
पर्वतमधिरूढा ऊर्श्वभूमिरिति 'उपत्यकाधित्यके' (१७।१।१३१॥) इति 'श्रीसि०' सूत्रेणाऽधित्यकेति निपातः । “अधित्यकोर्ध्वभूमिः स्यात्" इति हैमः । 'पा०' मते 'उपाधिभ्यां त्यकन्नासनारूढयोः' [५।२।३४॥] इति सूत्रेण त्यकन्प्रत्यये अधित्यका । "उपत्यकानेरासन्ना भूमिरुर्ध्वमधित्यका" इत्यमरः । प्रफुल्लतीति 'फुल्ल्-विकासे' भ्वादिः पर० अक० सेट्धातो: अप्रत्यये, 'पा०' मते च पचाद्यचीति अच्प्रत्यये प्रफुल्लम्-विकसितम् । "प्रबुद्धोज्जृम्भ-फुल्लानि व्याकोश विकचं स्मितम्; उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम्, प्रफुल्लोत्फुल्लसम्फुल्लोच्छसितानि विजृम्भितम्; स्मेरं विनिद्रमुनिगविमुद्रहसितानि च" इति हैमः । 'त्रिफला-विशरणे' इति धातोः कर्तरि ते "उत्पस्यातः' [७४१८८।।] इति 'पा०' सूत्रेण उकारादेशे प्रफलतीति प्रफुल्लम् ।।
रुणद्धि व्रणमिति रोधः, लत्वे लोध्रः । "लोधे तु गालवो रोध्र-तिल्वशावर-मार्जनाः" इति हैमः । 'पा०' मते तु रुध्धातोः रप्रत्यये रस्य लत्वे च लोध्रः । हूँ शाखाऽस्त्यस्येति 'धुद्रुभ्याम्' ॥ ७४४॥ इति 'उणादिश्रीसि०' सूत्रेण 'द्रु-गतौ' धातोः डिति उप्रत्यये दुः-वृक्षशाखा-वृक्षश्च । "वृक्षोऽग: शिखरी च शाखिफलदावद्रिहरिद्रर्दुमो, जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः, १. अभि० चि० च० १०३५ । ३. अभि० चि० च० ११२७-२८-२९ । २. अम० द्वि० शैलवर्गे - ६४७ । ४. अभि० चि० च० ११५९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93