Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 83
________________ अनुसंधान-२६ नन्द्यावर्त-करालिकौ तरुवसू पर्णी पुलाक्यंह्निपः, सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः" इति हैर्मः । वृक्षे तु "आरोहक : स्कन्धी सीमिको हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । लोध्र इति, यद्वा 'रोहः शिर' इतिवदभेदषष्ठ्यां लोध्रस्य द्रुमः लोध्रद्रुमः, तं लोध्रद्रुमं लोध्राख्यं द्रुममिव । ददर्श - अवलोकयामास ।। ९० वाच्यपरिवर्तनं त्वेवम्-धनुर्धरेण तेन (राज्ञा) पाटलायां गवि तस्थिवान् केसरी धातुमय्याम् अधित्यकायां सानुमतः प्रफुल्ल: लोध्रद्रुम इव ददृशे ॥ धनुर्धरः स दिलीप: रक्तवर्णायां गवि स्थितं सिंहं गैरिकादिधातुरक्तवर्णायां पर्वतोपरितनभूमौ विकसितं लोध्राख्यं वृक्षमिव अवलोकयामास इत्यर्थः, इति सरलार्थः ॥२९॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥ ३० ॥ तत इति । तस्मादिति तच्छब्दात्पञ्चम्यर्थे 'किमयादिसर्वाद्यवैपुल्यबहोः पित् तस्' (७२८९॥ ) इति 'श्रीसि० ' सूत्रेण तस्प्रत्यये 'पञ्चम्यास्तसिल्' [५|३|७|| ] इति पा०' सूत्रेण च तसिल्प्रत्यये ततः । ततः सिंहदर्शनानन्तरम् । मृग्यन्ते व्याधैरिति 'मृग्-अन्वेषणे याचने च' अदादि: चुरादि: आ० सक० सेट् अस्ति, 'मृग्-अन्वेषणे' दिवादिः पर० सक० सेट् अस्ति च । ततः कप्रत्यये मृगाः - हरिणाः । " मृगः कुरङ्गः सारङ्गो वातायुर्हरिणावपि " इति हैम: । ‘मृगे तु अजिनयोनिः स्यात्' इति हैमशेषैः । मृगो गजजातिभेदः । “भद्रो मन्दो मृगो मिश्रश्चतस्त्रो गजजातयः” इति हैमैः । ' मृगो मृग इव हीनसत्त्वत्वा' दिति टीका । मृगो नक्षत्रभेदे । "मृगशीर्षं मृगशिरो मार्गश्चान्द्रमसं मृगः" इति हैर्मः । षोडशजिनपतेः श्रीशान्तिनाथस्य भगवतो लाञ्छनं मृगः । " मृगः पशुमात्रे, हरिणे, गजभेदे, अश्विन्यवधिके पञ्चमे नक्षत्रे, मृग अदादिचुरादिः भावे अच्, अन्वेषणे याचने यज्ञभेदे च अच्, मृगमदे मकरराशौ च पुं०" । अत्र हरिणः पशुमात्रत्वात् । मृगाणामिन्द्रः मृगः इन्द्र इव वा मृगेन्द्रः । गमिष्यतीति गामी । मृगेन्द्रं गामी मृगेन्द्रगामी । यद्वा मृगेन्द्र इव गच्छतीति 'कर्तुर्णिन्' (५/१/१५३||) इति 'श्रीसि० ' १. अभि० चि० च० १११४ | ४. अभि० चि० हैमशेषे - १८६ । २. अभि० चि० हैमशेषे - १७३ - १७४ । ५. अभि० चि० च० १२१८ | ३. अभि० चि० च० १२९३ | ६. अभि० चि० द्वि० १०९ । I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93