Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
८८
अनुसंधान-२६
लोहादिः रसादिः शब्दप्रकृतिश्च । "धातुस्तु गैरिकम्" इति हैम: ।
धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियास्थनि ॥१७१॥
इत्यनेकार्थसङ्ग्रहः । लोहानि 'स्वर्णादीनि' यदाह |९e on H 10 39 | इन्द्रियं 'चक्षुरादि शुक्रं वा' । अस्थि पञ्चमो धातुः । रसादौ भ्वादौ श्लेष्मादौ लोहेषु च यथा
अभ्यस्तरूपसिद्धिः सुविदितधातूपसर्गविनिपातः । योगी वैयाकरणो जयति भिषक्लार्तिकेन्द्रो वा (वार्तिकेन्द्रो वा)
(yys. 4) ।। ग्रावविकारे 'ME-1021' । शब्दादौ 'न धातूनपि गृह्णीयादुन्मनीभावमागतः' । इन्द्रिये 'धातुपाटवमवेक्ष्य तिष्ठतः' । अस्थिन “यस्येह भज्यते धातुर्भवेत्तस्यैव वेदना' । धातुः पुं० ।
'धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥' इत्युक्तेषु वातादिषु, 'रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' || इत्युक्तेषु रसादिषु, 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीससीसलोहं सहिंगुलम् ॥
गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' । इत्युक्तेषु स्वर्णादिषु,
'हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् ।
कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः' ॥ इत्युक्तेषु हेमादिषु नवसु,
'हिरण्यं रजतं कांस्यं तानं सीसकमेव च । रङ्गमायसं रैत्यं च धातवोऽष्टौ प्रकीर्तिताः' ||
१. अभि० चि० च० १०३६ । २. अनेकार्थसङ्ग्रहे द्वि० १७१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93