SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ८८ अनुसंधान-२६ लोहादिः रसादिः शब्दप्रकृतिश्च । "धातुस्तु गैरिकम्" इति हैम: । धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियास्थनि ॥१७१॥ इत्यनेकार्थसङ्ग्रहः । लोहानि 'स्वर्णादीनि' यदाह |९e on H 10 39 | इन्द्रियं 'चक्षुरादि शुक्रं वा' । अस्थि पञ्चमो धातुः । रसादौ भ्वादौ श्लेष्मादौ लोहेषु च यथा अभ्यस्तरूपसिद्धिः सुविदितधातूपसर्गविनिपातः । योगी वैयाकरणो जयति भिषक्लार्तिकेन्द्रो वा (वार्तिकेन्द्रो वा) (yys. 4) ।। ग्रावविकारे 'ME-1021' । शब्दादौ 'न धातूनपि गृह्णीयादुन्मनीभावमागतः' । इन्द्रिये 'धातुपाटवमवेक्ष्य तिष्ठतः' । अस्थिन “यस्येह भज्यते धातुर्भवेत्तस्यैव वेदना' । धातुः पुं० । 'धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥' इत्युक्तेषु वातादिषु, 'रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' || इत्युक्तेषु रसादिषु, 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीससीसलोहं सहिंगुलम् ॥ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' । इत्युक्तेषु स्वर्णादिषु, 'हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः' ॥ इत्युक्तेषु हेमादिषु नवसु, 'हिरण्यं रजतं कांस्यं तानं सीसकमेव च । रङ्गमायसं रैत्यं च धातवोऽष्टौ प्रकीर्तिताः' || १. अभि० चि० च० १०३६ । २. अनेकार्थसङ्ग्रहे द्वि० १७१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229356
Book TitleRaghuvansh Dwitiya Sarga Tika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages93
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy