Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
९१
सूत्रेण, 'पा०' [मते] 'कर्तर्युपमाने' [३॥२॥७९॥] इति 'पा०' सूत्रेण च णिनि, मृगेन्द्रे गामी सिंहगामी ।
शरणे साधुरिति 'तत्र साधौ' (१७।१।१५॥) इति 'श्रीसि०' सूत्रेण 'तत्र साधुः' [४।४।९८॥] इति 'पा०' सूत्रेण च यत्प्रत्यये शरण्यः । शीर्यते शीताद्यनेनेति शृधातो: ल्युटि शरणम्-गृहम् । “गेहं तु गृहं वेश्म निकेतनम्; मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः, आलयो निलयः शाला सभोदवसितं कुलम्; धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आश्रयः, ओको निवास आवासो वसतिः शरणं क्षयः, धामाऽगारं निशान्तं च" इति हैमः । "शरणं गृहरक्षित्रोः" इत्यमरः । "शरणं रक्षणे गृहे" इति यादवः । शरणं न० । "गृहे, रक्षके, रक्षणे, वधे, घातके च; प्रसारण्यां स्त्री०; आप्-टाप् वा" । अत्र तु रक्षणम् । शरणे साधुरिति 'तत्र साधौ' इति 'श्रीसि०' सूत्रेण शरणशब्दात् यप्रत्यये 'तत्र साधुः' इति 'या०' सूत्रेण च यत्प्रत्यये शरण्यः । श-अन्यश्च । "शरणागतत्राणकरणयोग्ये, दुर्गायां स्त्री०" ।
प्रगता सभा अत्रेति प्रसभम्-हठः । "बलात्कारस्तु प्रसभं हठः" इति हैम: । सभया हि युक्तायुक्तविचारो लक्ष्यते । क्लीबलिङ्गोऽयमिति वृत्तिः । "प्रसभोऽस्त्री बलात्कारः' इति वैजयन्ती पुंस्यप्याह । अन्ये तु "प्रसभं त्रिलिङ्गः"। प्रगता सभा सभाधिकारो यस्मात् बलात्कारे । उद्धियन्ते स्मेति उत्पूर्वात् हृधातोः धृधातोर्वा कर्मणि क्ते उद्धृता: उन्मीलिता: ! "उन्मूलितमाबर्हितं स्यादुत्पाटितमुद्धृतम्" इति हैमः । "उद्धृतत्रि० उत्क्षिप्तो(से), भुक्तोज्झितो(ते), कृतोद्धारो(रे), पृथक्कृते, उच्छेदिते च" । अत्र तु उत्क्षिप्तार्थः । इयर्तीति 'स्वरेभ्य हः' ॥ ६०६॥ इति 'उणादिश्रीसि०' सूत्रेण 'ऋक्-गतौ' धातोः इप्रत्यये, 'पा०' मते इत्प्रत्यये च अरिः शत्रुः । "शत्रौ प्रतिपक्षः परो रिपुः, शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी; दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः, दुर्हत् परेः पन्थक-पन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: । अराः १. अभि० चि० च० ९८९-९०-९१-९२ । २. अम० तृ० नानार्थवर्गे - २४४० । ३. अभि० चि० तृ० ८०४ । ४. अभि० चि० ष० १४८० |
५. अभि० चि० तृ० ७२८-२९ ।
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93