Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 89
________________ अनुसंधान-२६ शब्दशक्तिबलादेव नाङ्गीकारार्हाणि च यत्, तत्राऽपि पूर्ववत् आर्याणां प्रश्ने मन्वादिरेवमाचख्यौ यद् ‘एवं मे स्मृतम् एवं मे स्मृतम्' इति । ततः सर्वत्र स्मृतिनाम्ना तत्प्रसिद्धिः । किञ्च हिंसाविधीनुक्त्वैव न ते विरताः, अपि तु पशुमारणप्रकारानपि अधिकरणरत्नमालादिषूक्तवन्तो यत् सदयानामार्याणां श्रवणेऽप्यनर्वाणि तद्वचनानि । 'मा हिंस्यात्सर्वभूतानि' इत्येतन्महावाक्यमादौ यदुक्तम्, तदपि दयाविरोधिवचनश्रवणावगणयन्तीमार्यप्रजामुपलभ्य तस्या विप्रलम्भनाय, यद्वयमपि 'अहिंसा प्रथमतयैवमनुमहे' इति विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव । यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि)खति अपि तु विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं 'मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः कलिकालसर्वज्ञबिरुदधारिणः श्री हेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्तः 'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । छत्ररक्षो न जैमिनिः'। किञ्च यदि 'यज्ञे हताः पशव उत्तमां गतिमाप्नुवन्ती'ति चेद् युष्मसिद्धान्तस्तदा स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टे न तेषु ते भक्तिः । अपि च यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते ! आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति येषु केषुचिदन्यदृशां शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयता दर्शकानि वचनानि तानि कतिचिदुद्धियन्ते । महाभारतानुशासनपर्वणि न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ॥ इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93