Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 90
________________ December - 2003 शान्तपर्वण्यपि अहिंसा सर्वजीवानां सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः ॥१॥ यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनाम् । इति मत्वा प्रयत्नेन त्याज्य: प्राणिवधो बुधैः ।।२।। भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने यथा हि पूर्वं बर्हिराजेन स्वेच्छापूर्तये वेदानुसरणेन सहस्रशः पशुवधयुता यज्ञा विहितास्तथा पुनः स न कुर्यादिति नारदस्तमुपदिदेश । भो भोः प्रजापते राजन् ! पशून् पश्य त्वयाऽध्वरे । संज्ञाऽपितान् जीवसङ्घान् निघृणेन सहस्रशः ||१|| एते त्वां संप्रतीक्षन्तो स्मरन्तो वैशसं तव । सम्परेतमय:कूटैः छिन्दन्त्युत्कटमन्यवः ॥२॥ शिवपुराणादिष्वपि एवमेव यज्ञीयाया अपि हिंसाया मांसभक्षणस्य च निषेधो दरीदृश्यते । ग्रन्थगौरवभयान्नाऽत्र लिखितः । विशेषजिज्ञासुना तत एवाऽवसेयम् । यवनशास्त्रेऽपि कुत्र कुत्रचिज्जीवहिंसानिषेधः प्रतिपाद्यते । तथा हि जरथोस्तिधर्ममान्ये शाहनामा इति विदिते ग्रन्थे एवं प्रतिपादितम्-'अस्माकं जरथोस्तिधर्म एवं पावनः (नेक) यत्पशून् हत्वा न तद्भक्षणं विधेयम्, न च तन्मृगया कर्तव्या' । तथा च तद्वचांसि तदीयशब्दैः - "नीस्त झंद खुरोने जानवरजू, चनीन अस्तदीने झरदूस्तनेक" । पारसिकानां 'इजस्ने' नामकधर्मपुस्तकस्य द्वात्रिंशे त्रयस्त्रिंशे चेहानामके विभागे अवस्ताभिधया तदीयभाषया प्रोक्तम् "मजदाओ अकामरो दईओ गेओइ । मरेंदान ओरु ओखश ओखती जीओ तुम । अएरीअ मनश् च । नदेंनतो गेओश् चा वाशतराद् अवेशतम । मन तू ईअशते वीशपे म जेशतेम शराशेम जवीया अउ अंबानो" । अस्याऽर्थः -'ये चतुष्पदानां पशूनां मारणे सन्तुष्टं जीवनं मन्यन्ते, ये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93