Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 74
________________ ८१ December - 2003 पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैमः । “इन्द्र शकेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्जके" इत्यनेकार्थसङ्ग्रहः । 'पाणि' मते तु इदिधातोः अप्रत्यये "इन्द्रः पुं०, “देवाधिपे, परमेश्वरे, परमैश्वर्ययुक्ते (परमशोभायुक्ते इत्यर्थः), इन्द्रदैवतज्येष्ठानक्षत्रे । द्वादशाश्चितुर्दश चन्द्राः इति तु जैनेतरमते; जैनमते तु असङ्ख्या अर्काः इन्द्राश्च चतुष्षष्टिः इति । विष्कुम्भादित: षड्विशे योगे, कुटकवृक्षे च" । अत्र तु स्वाम्यर्थः- परमशोभायुक्तो वेत्यर्थः । नगानां नगेषु वेन्द्रः-पर्वताधिपः, पर्वतेषु शोभमानो वा हिमालयः । सज्यते स्मेति सज्धातोः कर्मणि क्ते सक्ता "आसक्ते, अविरते च त्रिलिङ्गः" | "तत्परे प्रसितासक्तौ" इत्यमरः । नगेन्द्रे सक्ता नगेन्द्रसक्ता, तां नगेन्द्रसक्ताम्-पर्वतरामणीयकावलोकनग्रसिताम् । दृश्यतेऽनयेति दृश्धातोः करणे क्तिप्रत्यये, 'पा०' मते च तिन्प्रत्यये दृष्टिः-चक्षुः । "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमः । "अक्ष्णि रूपग्रहो दी(दे)वदीपः" इति हैमशेषः । दर्शनमिति भावे क्तिप्रत्यये दृष्टिः मतिः । "मतिर्मनीषा बुद्धिर्धीधिषणाज्ञप्तिचेतनाः, प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः, संवित्तिः शेमुषी दृष्टिः" इति हैम: । दृश्धातोः "भावे क्ति(क्तौ) निदर्शने, बुद्धौ च, करणे क्तिनि नेत्रे, द्वित्त्वसङ्ख्यायाम्, "चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिकादृष्टिरित्युच्यते" इत्युक्तायां मनोवृत्तौ च"। अत्र तु नेत्रार्थः । जैनमते च "ओघ-योगभेदेन द्विविधा, सम्यग्दृष्ट्यादिभेदेन त्रिविधा च । तत्र योगदृष्टिः "मित्रा तारा बला दीप्रा स्थिरा क्रान्ता प्रभा परेति भेदादष्टधा" । तत्स्वरूपं च योगदृष्टिसमुच्चये द्वात्रिंशद्वात्रिंशिकायां च । "दृष्टिज्ञानेऽक्षिण दर्शने" इत्यनेकार्थसङ्ग्रहः । तां दृष्टिम् । ___ अश्नुतेऽनयेति 'अशो रश्चादिः' ॥६८८॥ इति 'उणादिश्रीसि०' सूत्रेण 'अशौटि-व्याप्तौ' धातोः मिप्रत्यये धातोरादौ रेफागमे च रश्मिः प्रग्रह: मयूखश्च । १. अभि० चि० तृ० ३५८-५९ । ५. अभि० चि० हैमशेषे - १२१ । २. अनेकार्थसङ्ग्रहे द्वि० ३८५ । ६. अभि० चि० द्वि० ३०८-९ । ३. अम० तृ. विशेष्यनिघ्नवर्गे - २०४२ । ७. अनेकार्थसङ्ग्रहे- द्वि० ९० । ४. अभि० चि० तृ० ५७५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93