Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December 2003
७९
साधुरनगार ऋषिर्मुनिः, निग्रन्थो भिक्षुः" इति हैम: । साधयति कार्याणीति वा साधुः-सज्जनः । “साधौ सभ्यार्यसज्जनाः" इति हैमः । साधु- रमणीयम् । " चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे, वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे, काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम्" इति है : ।
A
"साधुजैनमुनौ वार्द्धषिके सज्जनरम्ययोः" इत्यनेकार्थसङ्ग्रहः । साध्नोति परकार्यमिति वा साधुः, स चैवंभूतो यदाह पण्डितराज:
परार्थव्यासङ्गादुपजहदपि स्वार्थपरता
मभेदैकत्वं यो वहति गुरुभूतेषु सततम् । स्वभावाद्यस्याऽन्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः || १ || सत्पु (पू)रुषः खलु हिताचरणैरमन्दमानन्दयत्याखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलानि ॥२॥
'पाणि० ' मते साध्धातोरुणप्रत्यये साधुः त्रिलिङ्गः “उत्तमकुलजाते, सुन्दरे, मनोहरे, उचिते च स्त्रियां ङीप् मुनौ, जिने च
न प्रहृष्यति सन्माने नाऽपमाने च कुप्यति । न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥
इत्याद्युक्तधर्मवति जने, वार्द्धषिके च पुं०" । इह तूचितार्थ: । आर्तेषु साधुः हितकारी आर्तसाधुः, तस्याऽऽर्तसाधोः - दीनरक्षणपरिचितस्य ।
नॄन् पातीति नृपः, तस्य नृपस्य राज्ञो दिलीपस्य । स्थावरत्वात् न गच्छतीति 'नगोऽप्राणिनि वा' ( ३।२।१२७|| ) इति 'श्री० सि० ' सूत्रेण 'नगः'
१. अभि० चि० प्र० ७५-७६ ।
२. अभि० चि० तृ० ३७९ ।
३. अभि० चि० ष० १४४४-४५ ।
४. अनेकार्थसङ्ग्रहे द्वि० २५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93