Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 71
________________ अनुसंधान- २६ 'मघा घड्वाघदीर्घादय:' ॥ ११० ॥ इति 'उणादिश्रीसि० ' सूत्रेण दृणातेर्दीरि घप्रत्ययान्ते निपातने दीर्घः अन्य (आय) त: उच्चश्च । " दीर्घायते समे" इति हैर्म: । "दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्" इत्यमरः । 'पा० ' मते तु दृधातोः र्घा घस्य नेत्वम् (?) दीर्घः पुं० । "शाललतावृक्षे, उष्ट्रे, द्विमात्रे स्वरवर्णे च आयते त्रिलिङ्गः" । अत्र त्वायतार्थः । गुहायां निबद्धः गुहानिबद्धः, गुहानिबद्धश्चाऽसौ प्रतिशब्दक्ष गुहानिबद्धप्रतिशब्दः, गुहानिबद्धप्रतिशब्देन दीर्घम् गुहानिबद्धप्रतिशब्ददीर्घम्कन्दरप्रतिबद्धप्रतिध्वानायतम् । ७८ तस्याः इदम् तदीयम् । आप्धातोः क्विपि पृषोदरादित्वात् पलोपे आ अव्ययं, "वाक्ये ( वाक्यस्याऽन्यथात्वद्योतने ), "पूर्वमेवं मंस्था इदानीमेवम्" इति प्रतिपादनपरे स्मृतौ (आ एवं मन्यसे इति स्मृतस्याऽन्यथापादने), अनुकम्पायां, समुच्चये, अङ्गीकारे, ईषदर्थे, क्रियायोगे, सीमायां व्याप्तौ च" । वाक्यस्मृतिभिन्नेऽस्य ङित्वमिच्छन्ति यदाह ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ इति । इह व्याप्त्यर्थः । आक्रन्दनं रुदितम् आक्रन्दितम् । " रुदितं क्रन्दितं कुष्टम्" इति हैमः । यद्वा आक्रन्द्यते इति आक्रन्दितम् । 'पा०' मते आङ्पूर्वात् क्रन्द्धातोः क्तप्रत्यये आक्रन्दितम् । आङ्पूर्वात् 'ॠ गतौ' भ्वादिर्जुहोत्यादिश्च प० सु० (स.) अनिट् 'ऋ - हिंसायां च ' क्यादिः पर० सक० अनिट् । तत्र गत्यर्थाद्धातोः क्तप्रत्यये ऋच्छति स्म इयति स्मेति वाऽऽर्तः " पीडिते, दुःखिते, सुस्थे च " । उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा साध्नोतीति साधुः साधयति वा सम्यग्दर्शनादिभिः परमं पदमिति 'कृ-चा-पा-जि- स्वदि-साध्यशौ-दृस्त्रासनि - जा - निरहीभ्य उण्' ॥१॥ इति 'उणादिश्रीसि० 'सूत्रेण 'साधं-संसिद्धौ' इति धातो: उत्तमक्षमादिभिस्तपोविशेषैर्भावितात्मा साध्नोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः - संयतः । उभयलोकफलं वा साधयतीति साधुः - धर्मशीलः । " अथ मुमुक्षुः श्रमणो यतिः, वाचंयमो यती १. अभि० चि० ष० १४२८ | २. अम० तृ० विशेष्यनिघ्नवर्गे ३. अभि० चि० ष० १४०२ । Jain Education International २१६२ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93