Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 69
________________ ७६ अनुसंधान - २६ भावे ल्युटि उत्पतनमिति, उत्पत्यते इति उत्पतनम् ऊर्ध्वगमने उत्पत्तौ च । आभिमुख्येन उत्पतनं अभ्युत्पतनम् | अलक्षितं अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतन:- अदृष्टाक्रमणः । I हिनस्तीति सिंहः । 'हिंसेः सिम् च' ॥५८८ ।। इति 'उणादिश्रीसि० ' सूत्रेण 'हिंसुप्-हिंसायाम्' इत्यस्माद् धः प्रत्ययः अस्य च सिमादेशः सिंहः - मृगराजः । यद्वा हिंस्धातोरचि पृषोदरादित्वात् सिंहः । " सिंहः कण्ठीरवो हरिः, हर्यक्षः, केसरीभारिः, पञ्चास्यो, नखरायुधः, महानादः, पञ्चशिखः, पारिन्द्रः, पत्यरी, मृगात्, श्वेतपिङ्गोऽपि " इति हैर्मः । सिंहे तु स्यात् " पलङ्कषः शैलाटो वनराजो नभःक्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्नो व्यादीर्णास्यः सुगन्धिकः " इति हैमशेषः । " सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे स्यादुत्तरस्थश्च" इत्यनेकार्थसङ्ग्रहः । सिंहः चतुर्विंशस्य जिनपतेर्लाञ्छनं भगवतो वर्द्धमानस्वामिनः । 'पा०' मते सिच्धातोः कप्रत्यये हिंस्धातोरचि वा पृषोदरादित्वात् " सिंहः पुंस्त्री०, 'सिंहो वर्णविपर्ययात्' । स्वनामख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः पञ्चमे राशौ च, पदान्तस्थः श्रेष्ठार्थे च " । अत्र पशुभेदः मृगराजः । " सिंहो मृगेन्द्र: पञ्चास्य:" इत्र्त्यमरः । प्रहसनं (प्रसहनं ) पूर्वमति प्रसह्य हठे । " हठे प्रसह्य” इति हैम: । यथा- 'प्रसह्य वित्तानि हरन्ति चौरा:' । 'पा०' मते प्रपूर्वात् सधातोः ल्यपि प्रसह्य अव्ययं हठादित्यर्थे । “प्रसह्य तेजोभिरसङ्ख्यतां गतैः " इति माघ: । “प्रसह्य तु हठार्थकम्" इत्यमरः । किल्धातोः कप्रत्यये किल अव्ययं, "वार्तायाम्, अनुशयार्थे, निश्चये, सम्भाव्ये, प्रसिद्धप्रमाणद्योतके, सत्ये, हेतौ, अरुचौ, अलीके, तिरस्कारे च" । अत्र किलेत्यलीके || वाच्यपरिवर्तनं त्वेवम् -तया हिंस्त्रैर्मनसाऽपि दुष्प्रधर्षया (भूयते) इति अद्रिशोभाप्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनेन सिंहेन प्रसह्य सा चकृषे ॥ किल महाप्रभावामिमां कामधेनुम् । सिंहादयो मनसाऽप्यभिभवितुं न प्रभवन्तीति निश्चित्य पर्वतशोभावलोकनदत्तदृष्टिना भूपेनाऽवलोकित एव सिंहो झटिति हठात् तां कामधेनोर (नुम) लीकमाययाऽऽक्रान्तवान् इति सरलार्थः ||२७|| १. अभि० चि० च० १२८३-८४-८५ ॥ ४. अम० द्वि० सिंहादिवर्गे - ९८९ । २. अभि० चि० हैमशेषे १८४-८५ । ५. अभि० चि० ष० १५३९ । ३. अनेकार्थसङ्ग्रहे द्वि० ५९०-९१ । ६. अम० तृ० अव्ययवर्गे २८६९ । Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93