Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७४
अनुसंधान-२६ वेदान्तमते सङ्कल्पविकल्पात्मकवृत्तिमदन्तःकरणे, तच्च सुखदुःखाद्याधारः, कामः सङ्कल्पो विचिकित्सा श्रद्धाऽ श्रद्धा धृतिहीीीरित्येतत्सर्वं मन एव इति श्रुतेः । न्यायमते तज्ज्ञानसाधनमिति भेदः, मनःशिलायां च" । इह तु सर्वेन्द्रियप्रवर्तकमतीन्द्रियम् । तच्च न्यायमतेऽणुस्वरूपम् । तदसाम्प्रतम्। सर्वत्र देहावयवाच्छेदेन सुखदुःखाद्युपलब्धेः । जैनमते 'जीववत् सर्वशरीरावगाहि मनस्त्वेन परिणतमनोवर्गणापुद्गलसमूहात्मकम् । तेन मनसा । अपि-पुनः ।
दुःखेन धृष्यतेऽसौ इति दुष्प्रधर्षा-दुर्धर्षा-अनभिभवनीयेति यावत् । एतीति इण्धातोः क्तिच्प्रत्यये इति-अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, प्रकर्षे, उपक्रमे च" । अत्र हेत्वर्थः । इति-हेतोः ।
अद्यते वज्रेणेति 'तङ्कि-वक्यङ्कि-मक्य-हि-शद्यदि सद्यशौ-वपिवशिभ्यो रिः' ॥६९२॥ इति 'उणादिश्रीसि०' सूत्रेण 'अदंक्-भक्षणे' धातोः रिप्रत्यये अद्रिः-पर्वतः । “शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचल: सानुमान् ग्रावा पर्वतभूध्रभूधरधराहार्या नगः" इति हैमः । “गिरौ प्रपाती कुट्टारः उर्वङ्गः कन्दराकरः" इति हैमशेषः । अद्रिः-वृक्षः ।
"वृक्षोऽग: शिखरी च शाखिफलदावद्रिहरिदुर्दुमो जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिको तरुवसू पर्णी पुलाक्यंहिपः
सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः ॥” इति हैमः । "वृक्षे चाऽऽरोहकः स्कन्धी सीमिकः हरितच्छदः उरु: जन्तुः वह्निभूश्च" इति हैमशेषः । जैनेतरमतेनेन्द्रशत्रुसतके द्वितीयो द्विट् । तत्र अदन्तीति अद्रयः । "अस्य तु द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः जम्भः" इति हैमः । अस्येतीन्द्रस्य द्विषः शत्रवः, ते तु पाकादयः सप्त । 'पा०' मते तु अद्धातो:
१. अभि० चि० च० १०२७ । ३. अभि० चि० च० १११४ । ५. अभि० चि० द्वि० १७४-७५।
२. अभि० चि० हैमशेषे - १५८ । ४. अभि० चि० हैमशेषे-१७३-७४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93