Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७२
अनुसंधान-२६
गूयते इति वा [गौरः] 'खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र-धूम्रान्ध्ररन्ध्रशिलीन्ध्रौड्र-पुण्ड्र-तीव्र-तीव्र-शीघ्रोग्र-तुग्र-भुग्र-निद्रा-तन्द्रा-सान्द्र-गुन्द्रारिज्रादयः' ।।३९६॥ इति 'उणादिश्रीसि०' सूत्रेण गौर इति रान्तो निपात: । गौरःअवदातः, ततो ड्यां गौरी-स्त्रीधर्मरहिता । गूयते उपादेयतया गौरी । “गौरी तु नग्निकाऽरजाः" इति हैमः ।
__'अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्'- इति च स्मार्तो विशेषः । गौरी स्त्री० ।
"शोन्दुकुन्दधवला, ततो गौरी तु सा मता ॥" इत्युक्त्यां पार्वत्याम्, "अष्टवर्षा भवेद्गौरी" इत्युक्त्यामष्टवर्षायां असञ्जातरजस्कायां कन्यायाम, हरिद्रायाम्, दारुहरिद्रायाम्, गोरोचनायाम्, प्रियङ्गौ, भूमौ, नदीभेदे, मञ्जिष्ठायाम्, श्वेतदूर्वायाम्, मल्लिकायाम्, तुलस्याम्, स्वर्णकदल्याम्, आकाशमांस्याम्, रागिणीभेदे च" । अत्र तु पार्वत्यर्थः । गौर्याः गुरु: गौरीगुरुः, तस्य गौरीगुरो:-पार्वतिपितुः - हिमाचलस्येत्यर्थः ।
__ गृहति गाह्यते वेति 'तीवर-धीवर-पीवर-छित्वर-छत्त्वर-गह्वरोपह्वरसंयद्वरोदुम्बरादयः' ॥४४४|| इति 'उणादिश्रीसि०' सूत्रेण वरट्प्रत्ययान्ता(त)निपातने गह्वरम् । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । यद्वा गह्वाः सन्त्यत्रेति वा अश्वादित्वाद् रनिपातने गह्वरम् । “अखातबिले तु गह्वरं गुहा" इति हैमः । रुदितविशेषो वा गह्वरम् । “तदपुष्टं तु गह्वरं(रः)" इति हैमः । तद् रुदितम् अपुष्टं गद्गद्स्वरत्वाद् जातोच्चपूत्कारं गाहते हृदयान्तरिति गह्वरम् । 'जठर-क्रकर-मकर-शङ्कर-कर्पर-कूपर-तोमर-पामर-प्रामर-प्राद्मर-सगर-नगरतगरोदरादर-शृदर-दृदर-कृदर-कुकुन्दर-गोर्वराम्बर-मुखर-खर-डहर-कुञ्जराजगरादयः' ॥४०३॥ इणि 'उणादिश्रीसि०' सूत्रेण गाधातो: किदरप्रत्ययान्तो निपातः । 'पा०' मते तु गह्वर पु०, गाधातोर्वरच्प्रत्यये निपात्यते । “निकुञ्ज, दम्भे, स्ने, रोदने, विषमस्थाने, अनेकानर्थसङ्कटे च नपुं० गुहायां नपुंस्त्री०" ।
Taf
१. अभि० चि० तृ० ५१० । २. अभि० चि० च० १०३३ । ३. अभि०चि० १० १४०२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93