Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 66
________________ December - 2003 ७३ "गहरो बिलदम्भयोः, कुञ्जेऽथ" इत्यनेकार्थसङ्ग्रहः । स्त्रीत्वपक्षे ङीप् । अत्र तु गुहार्थः । तद् गह्वरम्-गुहाम् । आविवेश-प्रविवेश ।। वाच्यपरिवर्तनं त्वेवम्-अन्येधुर्मुनिहोमधेन्वा आत्मानुचरस्य भावं जिज्ञासमानया सत्या गङ्गाप्रपातान्तर्विरूढशष्पं गौरीगुरोः गह्वरमाविवेशे ।। द्वाविंशे दिने धेनुः निजसेवकस्याऽभिप्रायं ज्ञातुमिच्छन्ती द्वाविंशे दिने नन्दिनी किमयं स्वार्थसाधनानुरोधादुत विशुद्धभक्तियोगात् मामेवं सेवते, इति मायाबलेन निजसेवकस्य दिलीपस्याऽभिप्रायं ज्ञातुमिच्छन्ती सुरसरित्प्रपातान्तर्विरूढबालतृणां हिमालयगुहामाविवेश, इति सरलार्थः ॥२६॥ सा दुष्प्रधर्षा मनसाऽपि हिंस्त्रैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥२७॥ सेति । सा नन्दिनी । हिंसन्तीत्येवंशीला इति हिंसनशीला 'स्मय-जसहिंस-दीप-कम्प-कम-नमो रः' (५।२॥७९॥) इति 'श्रीसि०' सूत्रेण 'हिंस्हिंसने' धातो: शीलादावर्थे 'र' प्रत्यये हिंस्रा:-व्याधाः । "हिंस्र(ने) शरारुधा(घा) तुकौ" इति हैमः । "हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा" इत्यनेकार्थसङ्ग्रहः । "पा०' मतेऽपि हिंस्धातोः रप्रत्यये हिंस्रः त्रिलिङ्गः। "हिंसाशीले, घोरे, भये, हरे, भीमसेने च पुं०, मांस्याम्, काकादन्याम्, एलवालुकायाम्, नाड्याम्, जटामांस्याम्, गवेधुकायाम्, शिरायां च स्त्री०" । अत्र घातुकार्थः । तैः हिंस्त्रैः-घातुकैर्व्याघ्रादिभिः इत्यर्थः । मन्यते जानात्यर्थमिति 'अस्' ॥९५२।। इति 'उणादि श्रीसि०' सूत्रेण 'मनिच-ज्ञाने' इति धातोः अस्प्रत्यये मनः-नोइन्द्रियम् । "अन्तःकरणं मानसं मनः, हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चलेः" इति हैमः । 'यदवोचामस्तकें सर्वार्थसंग्रहणं मनः' इति तवृत्तौ । 'पाणि०' मते 'मन्-बोधे' दिवादिः आत्मने० सक० अनिट्धातोः तनादिः आत्म० सक० सेट्धातोर्वा मन्यतेऽनेनेति असिप्रत्यये करणे असुन्प्रत्यये वा मनः, सर्वेन्द्रियप्रवर्तके अतीन्द्रिये इति न्यायमते, १. अनेकार्थसङ्ग्रहे तृ० ५४३ । २. अभि०चि०४० ३६९ । ३. अनेकार्थसङ्ग्रहे द्वि० ४६१ । ४. अभि० चि० १० १३६९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93