Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
८४
अनुसंधान-२६ "स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः, गौस्त्रिदिवमूर्ध्वलोकः सुरालयः" इति हैमः । “फलोदयो मेरुपृष्ठं वासवावाससैरिकः । दिदिविः दीदिवि: धुश्च दिवं च स्वर्गवाचकाः" इति हैमशेषः । स्वश्चाऽव्ययेषु । गच्छत्यस्मात्तम इति वा "गौ:-किरणः पुंस्त्री०" | "रोचिरुस्ररुचिशोचिरंशुगो ज्योतिर्चिरुपधृत्यभीशवः, प्रग्रहः शुचि-मरीचि-दीप्तयो धाम-केतु-घृणि-रश्मिपृश्नयः, पाददीधिति-कर-द्युति-द्युतो रुग्विरोक-किरण-त्विषः; भाः प्रभा-वसु-गभस्तिभानवो भा-मयूख-महसी छविविभा" इति हैमः । गच्छतीति वा गौः-वाणी । "वाग् ब्राह्मी भारती, गौर्गी- र्वाणी भाषा सरस्वती; श्रुतदेवी" इति हैमः । गच्छन्त्यस्यामिति वा गौः पृथ्वी, गोरूपधरत्वाद्वा गौः । "भूर्भमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा, धात्री धरित्री धरणी विश्वा विश्वम्भरा धरा; क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही, गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः; सर्वसहा रत्नगर्भा जगती मेदिनी रसा, काश्यपी पर्वताधारा स्थिरेला रत्न-बीजसूः' विपुला सागराच्चाने स्युर्नेमीमेखलाम्बराः" इति हैमः । “अथ पृथिवी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा देहिनी केलिनी मौलिमहास्थाली अम्बरस्थली" इति हैमशेषः । गच्छतीति वा गौःवृषभ: । “अथ ऋषभो वृषभो वृषः; वाडवेय: सौरभेयो भद्रः शक्चर-शाक्वरौ, उक्षाऽनड्वान् ककुद्यान् गौर्बलीवर्दश्च शाङ्करः" इति हैम: । गच्छतीति वा गौः -सुरभिः । “गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी, उस्राऽघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुाषा; तम्पा निलिम्पिका तंवा" इति हैम: । सा सुरभिर्वणैरनेकधा शबला धवला इत्यादिः । “सा तु वर्णैरनेकधा" इति हैम: १ ।
गर्भवती सा प्रष्ठौही-२ । “प्रष्ठौही गर्भिणी" इति हैम: । वन्ध्या सा वशा-३ । “वन्ध्या वशा" इति हैम: । वृषोपगा सा वेहद् गर्भोपधातिनी-४ । १. अभि० चि० द्वि० ८७ । २. अभि० चि० हैमरोषे - ३ ।
७. अभि० चि० च० १२५६-५७ ३. अभि० चि० द्वि० ९९-१००। ८. अभि० चि० च० १२६५-६६ । ४. अभि० चि० द्वि० २४१ ।
९. अभि० चि० च० १२६६ । ५. अभि० चि० च० ९३५-३६-३७-३८ । १०. अभि० चि० च० १२६६ । ६. अभि० चि० हैमशेषे १५७-५८ । ११. अभि० चि० च० १२६६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93