Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
७०
अनुसंधान-२६ 'रुह्-प्ररोहणे' धातोः कर्तरि क्ते विरूढानि । “विरूढशब्दः त्रिलि० जाते अङ्कुरिते च' । शीयत इति 'शदि-बाधि-खनि-हनेः (ने) षः च' ॥२९९।। इति 'उणादिश्रीसि०' सूत्रेण 'शद्लं-शातने' धातो: 'प'प्रत्यये षान्तादेशे च शष्पंबालतृणम् । यद्वा शषतीति 'शष्-हिंसायां' धातोः 'प प्रत्यये, 'पाणि०' मते च 'पक्' प्रत्यये शष्पम् । "शष्पं तु तदनेवं (तद् नवम्)" इति हैमः । 'तत् तृणं नवोद्भिन्नं बालम्' इति तद्वृत्तिः । “शष्पं बालतृण(ण) घासः" इत्यमरः । "शष्यं नपुं० बालतृणघासे; प्रतिभाक्षये पुं०" । गङ्गाप्रपातान्ते जाह्नवीपतनप्रदेशसमीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्य तदिति गङ्गाप्रपातान्तविरूढशष्यम् ।
गौरत्वात् गौरशब्दात् 'गौरादिभ्यो मुख्यान् ङीः ।२।४।१९॥ इति 'श्रीसि०' सूत्रेण ङीप्रत्यये, 'पा०' मते च ङीप्प्रत्यये गौरी-पार्वती । "गौरी काली पार्वती मातृमाताऽर्पणा रुद्राण्यम्बिका त्र्यम्बकोमा दुर्गा चण्डी सिंहयाना मृडानी कात्यायन्यौ दक्षजाऽऽर्या कुमारी सती शिवा महादेवी शर्वाणी सर्वमङ्गला भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा निशुम्भ-शुम्भ-महिष मथनी भूतनायिका" इति
हैमशेषश्च
गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया । कालरात्रि: महामाया भ्रामरी यादवी वरा ॥१॥ बहिर्ध्वजा शूलधरा परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी ॥२।। जाङ्गली बदरीवासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ॥३॥ महाविद्या सोनीबाली स्कदन्त्येकपाटला । एकपर्णा बहुभुजा नन्दपुत्री महाजया ॥४॥
१. अभि० चि० तृ० ११९१ । २. अम० द्वि० वनौषधिवर्ग - ९८३ । ३. अभि० चि० द्वि० २०३-४-५ ४. अभि० चि० हैमशेषे ४९-६१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93