Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 62
________________ December - 2003 ६९ गच्छति समुद्रमिति 'गम्लं-गतौ' इति धातोः 'गम्यमि-रम्यजि-गद्यदिछो-गडि-खडि-गृ-भृ-वृ-स्वृभ्यो ग:' ॥१२॥ इति 'उणादिश्रीसि०' सूत्रेण गप्रत्यये, 'पाणि०' मते च गन्प्रत्यये गङ्गा-देवनदी स्त्री० । "गङ्गा स्वनामख्याते, नदीभेदे" । "गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी सिद्धस्व:स्वर्गिखापगा ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा" इति हैमः । प्रपतन्ति अस्मिन्निति 'पत्रों-पतने' धातो: 'व्यञ्जनादञ् (द् घञ्)' (५।३।१३२॥) इति श्रीसि०' सूत्रेण पुंनाम्नि करणाधारे घजि प्रपातः । प्रपतन्त्यस्मादिति वा 'भावाकोंर्घञ् (कों:) (५।३।१८॥) इति 'श्रीसि०' सूत्रेण घजि प्रपात: । "प्रपातस्त्वतटो भृगुः" इति हैम: । 'प्रपत्यते यस्मात् तटात् स भृगुः इत्येके' इति तद्वत्तौ । यद्वा प्रपतनं प्रपातः, भावि घजि प्रपात:- छलादाक्रमणमित्यर्थः । "प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः" इति हैम: । "प्रपात: पुंलि० तटरहिते निरवलम्बे पर्वतस्थाने, निर्झरे, कूले, अवस्कन्दे च, भावे घजि पतने" । अत्र त्वधिकरणव्युत्पत्या पतनप्रदेशः । गङ्गायाः प्रपात: गङ्गाप्रपात: । जैनमते- चुल्लहिमवत्पर्वताधोवर्ती गङ्गाप्रपातनामा कुण्डविशेषोऽ प्यस्ति । अमतीति 'अम्-गतौ' धातोः 'दम्यति-तमि-वा-पू-धूगृ-ज-हसि-वस्यसि-वितसि-मसीण्भ्यस्तः' ॥२००|| इति 'उणादिश्रीसि०' सूत्रेण तप्रत्यये, 'पाणि०' मते तन्प्रत्यये च "अन्तः-अवसानं, धर्मः समीपं च "अथाऽन्तिमं जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे" इति हैमः । यद्वा अमति सन्देहाभावमिति अन्तः-निर्णयः । “निर्णयो निश्चयोऽन्तः" इति हैमः । अमत्यनेन वाऽन्तः - सीमा । "आधाटस्तु घटोऽवधिः, अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैमः । “अन्तः नपुं० स्वरूपे, स्वभावे च, शेषे पुनपुं०, नाशे, प्रान्ते, सीमायां, निश्चये, अवयवे च पुं० , निकटे मनोहरे च त्रिलिङ्गः" । अत्र तु सामीप्ये । गङ्गाप्रपातान्तः । विशेषेण रोहन्ति, रोहन्ति स्मेति वा; विउपसर्गात् १. अभि० चि० च० १०८१-८२. २. अभि० चि० च० १०३२ । ३. अभि० चि० तृ० ८०० । ४. अभि० चि० १० १४५९ । ५. अभि० चि० १० १३७४ । ६. अभि० चि० तृ० ९६२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93