Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
६७
December - 2003 नमस्कृत्ये'त्यस्य व्याख्याने तत्त्वबोधिन्यां मन्ता-वेदशास्त्रार्थतत्त्वावगन्ता, इति । 'मनेरुदेतौ चास्य वा' इत्यौणादिकसूत्रेण मनेरत उकारे मने: परे इन्प्रत्यये च मुनिः । अथवा मननशीलो मुनिरिति । मुनिशब्दः सप्तसङ्ख्यायामपि । अत्र वेदशास्त्रार्थतत्त्वावगन्ता मुनिर्ग्राह्यः । हूयतेऽसावग्नाविति होमः । 'अर्तीरि-स्तुसु-हु-सृ-घृ-धृ-शृ-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-वलि-पदि-नीभ्यो मः' ॥३३८॥ इति 'उणादिश्रीसि०' सूत्रेण 'हुंक्-दानादनयोः (दानमिह हविष्प्रक्षेप:) धातो: 'म' प्रत्यये, 'पाणिनि' मते च मनिप्रत्यये होमः-आहुतिः । "स्याद देवयज्ञ आहुति: होमो होत्रं वषट्कारः" इति हैमः । हूयतेऽस्मिन्निति होम: इत्यधिकरणेऽपि पु० ।"देवतोद्देशेन वह्रौ, मन्त्रद्वारा घृतादित्यागरूपे हवने; जैनेतरमते तु नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु मध्ये देवयज्ञे, श्राद्धीयविप्रपाणी, श्रद्धी(श्राद्धीय?)यागभागस्य मन्त्रेण दाने च' । होमाय होमस्य वा धेनुः होमधेनुः । मुनेः होमधेनुः मुनिहोमधेनुः । मुनेः होमार्थं घृतपयोदध्यादिसाधन(नं) नन्दिनी, इदमपि जैनेतरमते एव ।
अतति, सततं गच्छतीति अत्-सातत्यगमने' धातो: 'सात्मन्नात्मन्वेमन्-रोमन्-क्लोमन्-ललामन्-नामन्-पाप्मन्-पक्ष्मन्-यक्ष्मन्निति' ॥९१६।। इति 'उणादिश्रीसि० सूत्रेण मन्प्रत्ययान्ता, 'पाणिनि मते च मनिष्प्रत्ययान्तो निपातः, अतेर्दीर्घश्चेत्यात्मा जीवः । "क्षेत्रज्ञ आत्मा पुरुषश्चेतनः" इति हैमः । अथवा अतत्यनेनेति आत्मा-स्वभाव: । "स्याद्रूपं लक्षणं भावश्चाऽऽत्मप्रकृतिरीतयः, सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्; शीलं सतत्त्वं संसिद्धिः" इति हैम: । "आत्मा स्वरूपे, यत्ने, देहे, मनसि, वृत्तौ, बुद्धौ, अर्के, वह्नौ, वायौ, जीवे, ब्रह्मणि च" ।
"आत्ममातुः स्वसुः पुत्रां, आत्मपितुः स्वसुः सुताः ।
आत्ममातुलपुत्राश्च विज्ञेया ह्यात्मबान्धवाः ॥" इत्युक्त्यनुसारेणाऽत्र आत्मा स्वीयार्थः । अनुचरतीति अनु-उपसर्गपूर्वात् 'चर्-गतिभक्षणयोः' इति धातोः अच्प्रत्यये, 'पा०' मते चट्प्रत्यये अनुचर:१. अभि० चि० त० ८२१ । २. अभि० चि० १० १३६६ । ३. अभि० चि० १० १३७६-७७।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93