Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 59
________________ अनुसंधान-२६ च । अत्र त्वावृत्त्यर्थः । त्रयो गुण आवृत्तयो येषां तानि त्रिगुणानि-त्रिरावृत्तानि । सप्धातोः कनिनि तुटि च, अथवा सप्धातोः तनिन्प्रत्यये वा सप्तन् पु० । त्रि० । "सप्तत्वविशिष्टे सङ्ख्याविशेषे, तत्सङ्ख्यायां च" । सप्त । दीव्यति रविरति यद्वा द्यति तम इति दोंचधातोर्नक्प्रत्यये दिनं "सूर्यकिरणोपलक्षिते षष्टिदण्डात्मके तद्विशिष्टे अवखण्डने वा चतुर्यामात्मके काले" तच्च मनुष्याणां षष्टिदण्डात्मकम् । पितॄणां गौणचन्द्रमासात्मकम्, तेषां हि चन्द्रलोकोपरिस्थितेः कृष्णाष्टमीत एव सूर्यस्य तल्लोके किरणस्पर्शसंभवः, शुक्लाष्टम्यां पुनर्भूवृत्तेनाऽच्छादनाच्च न तत्सम्पर्कः । देवानामसुराणां च सौरवर्षकालात्मकम् । ब्रह्मणो दिव्यमानेन युगसहस्रकालात्मकमिति विवेकः' । एतत्सर्वं जैनेतरमते । अत्र तु षष्टिदण्डात्मकं दिनम् । त्रिगुणानि दिनानि-एकविंशतिर्वासराणीत्यर्थः। व्यतीयुः-व्यतिक्रान्तानि ॥ वाच्यपरिवर्तनं त्वेवम् - इत्थं प्रजार्थं महिष्या समं व्रतं धारयतो महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य त्रिगुणैः सप्तभिर्दिनैः व्यतीये । इत्थं सन्तानाय पन्त्या समं व्रतं धारयतः पूजितकीर्तिः दीनरक्षणोचितस्य तस्य नृपस्य एकविंशतिदिनानि गतानि, इति सरलार्थः ॥२५॥ अन्येधुरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्यं गौरीगुरोर्गह्वरमाविवेश ॥२६॥ अन्येद्युरिति । अन्यस्मिन् दिने इति 'पूर्वापराधरोत्तरान्यान्यतरेतरादेधुस्' (७।२।९७॥) इति श्रीसि०' सूत्रेणाऽन्यशब्दात् अन्यस्मिन्नह्नि कालेऽर्थे एास्प्रत्यये अन्येयुः । 'सद्यःपरुत्परायैषमःपरेद्यव्यद्यपूर्वेधुरन्येधुरन्यतरेधुरितरेधुरपरेधुर धरेधुरुभयेधुरुत्तरेयुः [५।३।२२।।] इति 'पा०' सूत्रेण च अन्येधुनिपातः । अन्येद्युःद्वाविंशे दिने । मन्यते जगतस्त्रिकालावस्थामसाविति 'मनिच्-ज्ञाने' इति धातोः 'मनेरुदेतौ चाऽस्य वा' !॥६१२॥ इति 'उणादिश्रीसि०' सूत्रेण 'इ'प्रत्ययेऽकारस्योकारे च मुनिः ज्ञातवान् पुंस्त्रीलिङ्गः । “अथ मुमुक्षुः श्रमणो यतिः वाचंयमो व्रती साधुरनगार ऋषिमुनिः निर्ग्रन्थो भिक्षुः" इति हैमः । जैनेतरमते तु-'मुनित्रयं १. अभि० चि० प्र० ७५-७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93