Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
६४
अनुसंधान - २६
मुनीनां पञ्च महाव्रतानि । अन्ये चाऽभिग्रहविशेषा अपि व्रतानि गीयन्ते । "व्रतं लक्षणभेदे पुण्यसाधने उपवासादि नियमभेदे च" । अत्र तु जैनेतरमतेन गोसेवारूपो नियमो व्रतम्, तत् व्रतम् ।
धारयतीति चुरादि' धृ'धातोः णिचि शतृप्रत्यये [च] धारयन्, तस्य धारयतः - अनुतिष्ठतः पालयत इत्यर्थः । महितुं योग्येति 'मह्-पूजायां' धातोरनीयप्रत्यये महनीया - पूज्या | 'पाणि०' मते च अनायरप्रत्यये । कीर्त्यते इति 'साति - हेति - यूति - जूति - ज्ञप्ति - कीर्त्तिः' (५ ३ ९४ ॥ ) इति 'श्रीसि० ' सूत्रेण 'कृतत्-संशब्दने' धातोः भावाकर्त्री: क्तिप्रत्ययान्तनिपातने कीर्त्तिः - यशः । " श्लोकः कीर्त्तिर्यशोऽभिख्या समाज्ञा " इति हैर्म: । 'पाणि०' मते चुरादि 'कृत्' धातोः कर्मणि तिनि कीर्त्यते इति कीर्त्तिः यशसि ।
37
" एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः I
यद्वा
" दानपुण्यफला कीर्त्तिः पराक्रमकृतं यशः" इति । यशःकीर्त्योरर्थभेदोऽप्यन्यत्र । अत्र तु यशसि । महनीया कीर्त्तिर्यस्य सः महनीयकीर्त्तिः, तस्य महनीयकीर्तेः
प्रशस्तयशसः ।
दीयते स्मेति 'सि० ' मते दीङ्च्-क्षये, 'पा०' मते तु 'दी - क्षये' इति धातोः कर्तरि के तस्य च नत्वे दीनः त्रिलिङ्ग: । "दुःखिते, भीते च, तगरपुष्पे नपुं०, मूषिकायां स्त्री० " । उदहरणं उद्धरणं वेति उत्-उपसर्गपूर्वात् हृ-धृधातो 'सि० ' मते भावेऽनटि, 'पा० 'मते च ल्युटि उद्धरणम् । दीनानामुद्धरणम् दीनोद्धरणम्। उच्यते स्मेति उचितः - योग्य: । "न्याय्यं तूचितं युक्तसांप्रते लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च' इति हैमेः । ' वच्-परिभाषणे' धातोः ‘उवच्समवाये' धातोर्वा कर्मणि ते, 'पाणि०' मते उच्धातोः क्ते वच्धातो: कितच्प्रत्यये वा उचितः त्रिलिङ्ग: ।" न्यस्ते, परिचिते, युक्ते" । अत्र तु परिचितार्थः । दीनोद्धरणे उचितः - परिचितः दीनोद्धरणोचितः, तस्य दीनोद्धरणोचितस्य दीनजनरक्षणनिरतस्य ।
१. अभि० चि० द्वि० २७३ ।
२. अभि० चि० तृ० ७४३ ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93