Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
'श्रीसि०' सूत्रेण इदम्शब्दात् एतच्छब्दाच्च थमि इदादेशे च इत्थम् इति निपात्यते । 'पाणि०' मते तु इदम्शब्दात् थमुप्रत्यये इत्थम् अव्ययम्, "इदम्प्रकारे, अनेन प्रकारेणेत्यर्थे च" । प्रजायते इति प्रपूर्वात् जन्धातोः 'क्वचित्' (५।१।१७१॥) इति 'श्रीसि०' सूत्रेण डप्रत्यये प्रजा । "सन्ततौ, जने च । तोकापत्यप्रसूतयः तुक् प्रजोभयोः" इति । “लोको जनः प्रजा" इति च हैम:: "प्रजा स्यात् सन्ततौ जने" इत्यमरश्चरे । प्रजा एवाऽर्थः प्रयोजनं यस्य तत्, प्रजायै इति वा प्रजार्थम् । मह्यते पूज्यते इति 'मह्यविम्यां हित्' ॥५४७॥ इति 'उणादिश्रीसि०' सूत्रेण 'मह्पूजायां' धातोः टिदिषप्रत्यये महिषः सैरिभः राजा च । ततो ङ्यां महिषी राजपत्नी सैरिभी च ! "कृताभिषेका महिषी" इति हैमः । 'नृपस्त्रीत्युत्तरत: सम्बध्यते महादेवीत्वे कृताभिषेका यथा वासवदत्तेति' तद्वत्ति: । "कृताभिषेका महिषी" इत्यमरः । यद्वा मधातोः टिषचिप्रत्यये ततो डि(ङी)पि महिषी । 'राज्ञः कृताभिषेकायां महिषजातिस्त्रियाम् औषधिभेदे च' । अत्र तु पट्टराज्ञी महिषी, तया महिष्या ।
सम्पूर्वात् 'अम्-गतौ' धातोः, सङ्गतममतीति समम् । "साकं सत्रा समं सार्धममा सह" इति हैम: । 'यथाऽस्मदुपज्ञे द्वयाश्रयमहाकाव्ये "पुलिनानि सह क्षोमैः सरांसि नभसा समम्" । 'ज्योत्स्न्य(न्या)माहन्यामिषन्मेघाः साकं कैलाशमुनिभिः' इति तद्वृत्तौ । यद्वा सम्धातोः समुप्रत्यये समम् अव्ययं, "साहित्ये, एकदेत्यर्थे च" । 'सममेव समाक्रान्तं द्वयम्' इति रघुः । अत्र समं सह।
वियते उपवासाद्यवेति 'पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित्' ।।२०८॥ इति 'उणादिश्रीसि०' सूत्रेण 'वृगट्-वरणे' इति धातोः किदतप्रत्यये व्रतम् - शास्त्रविहितो नियमः । “नियमः पुण्यकं व्रतम्" इति हैम: । जैनदर्शने देशसर्वादिभेदेन व्रतानामनेकविधत्वम् । देशतः श्रावकाणां द्वादशव्रतानि, सर्वतो
६. अभि० चि० तृ० ८४३ ।
१. अभि० चि० तृ० ५०१ । २. अम० तृ० नानार्थवर्गे - २३९८ । ३. अभि० चि० तृ० ५२० । ४. अम० द्वि० मनुष्यवर्गे - १०८३ । ५. अभि० चि० १० १५२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93