Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
३८
अनुसंधान-२६ तमा विभावरी रजनी वसति: श्यामा वासतेयी तमस्विनी उषा दोषेन्दुकान्ता" इति हैम:' । यद्वा 'पा०'मते क्षपयति चेष्टामिति वैधातोः णिचि पुकि च क्षपा रात्रौ । दिनं च क्षपा च दिनक्षपे । 'म-बन्धने' मव्यत इति 'शिक्यास्यान्यमध्य-विन्ध्य-धिष्णयाघ्यहर्म्य-सत्य-नित्यादयः" ॥३६४।। इति 'उणादिश्रीसि०'सूत्रेण वस्य धेयान्ते (धत्वे) च निपातने मध्यम् । "मध्यमन्तरे" [इति हैम:२] । स्वरभेदेऽपि "ते मन्द्र-मध्य-तारा स्युरुरः कण्ठ शिरोद्भवाः" इति हैम: ।
दत्तिलोऽपि आहनृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः । स एव कण्ठे मध्यः स्यात्तारः शिरसि गीयते ॥१॥
मध्यं लयविशेष: । "द्रुतं विलम्बितं मध्यमोघस्तत्वं घनं क्रमात्" इति हैमः ।
भागुरिरप्याऽऽह- "लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु" । इति ।
मव्यते बध्यते मे स्वराद्यत्र मध्यः । “मध्योऽवलग्नं विलग्नं मध्यमः" इति हैम: । 'पाणि०'मते तु मन्धातोः यकि नस्य घे च निरुक्तेः मध्यं पुं० न० । "देहस्याऽवयवभेदे, नृत्यादौ, मन्दत्वशीघ्रत्वभिन्ने, व्यापार भेदे, पूर्वापरसीमयोरन्तराले, पराय॑सङ्ख्यातोऽर्वाचीनायां सङ्ख्यायां, न० तत्सङ्ख्याते च" । “अन्त्यं मध्यं परायं चे" ति लीलावती । "ज्योतिषोक्ते, ग्रहाणां गतिभेदे स्त्री०, तद्वति ग्रहे पु०, न्याय्ये, अन्तवर्तिनि च त्रिलि." । "मध्यं न्याय्येऽवलग्ने अन्तर्" इति अनेकार्थसंग्रह: । इह त्वन्त: दिनक्षपयोर्मध्यं दिनक्षपामध्यम् । गम्यते स्मेति गता ! दिनक्षपामध्यं गता दिनक्षपामध्यगता ।
___ सन्ध्यायन्त्यस्यामिति, यद्वा सज्येते सन्धीयेत अहोरात्रावस्यामिति सङ्ग्धातोः 'सञ्जे: च' ॥३५९॥ इति 'उ० श्रीसि०'सूत्रेण यप्रत्ययो धोऽन्तादेशश्चेति सन्ध्या । "सन्ध्या तु पितृसूः" इति हैम: । यद्वा 'पा०' मते सम्पूर्वात
१. अभि० चि० द्वि० १४१-४२-४३ । ३. अभि० चि० ५० १४०२ । ५. अभि० चि० त० ६०७ । ७. अभि० चि० द्वि० १४० ।
२. अभि० चि० प० १४६० । ४. अभि० चि० द्वि० २९२ । ६. अनेकार्थसङ्ग्रहे द्वि० ३६५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93