Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 41
________________ अनुसंधान-२६ एतेषां दानमेतत्स्थगुणानामनुमोदनात् । औचित्यानतिवृत्त्या च सर्वसम्पत्करं मतम् ॥९॥ शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनर्नाऽनिष्टो यतनावतः ॥१०॥ धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ॥११॥ इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग्भवेत् ॥१२॥ (द्वात्रिंशद् द्वात्रिंशिकायां दानद्वात्रिंशिका) एवं भक्तिदानादिस्वरूपं सर्वज्ञशासनातिरिक्ते नोपलभ्यते । पुनश्च देवविषयिण्या भक्तेः पञ्चविधत्वं उपदेशतरङ्गिण्यां प्रतिपादितम् पुष्पाद्यर्चा तदाज्ञा च तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ।। भक्तिः श्रीवीतरागे पञ्चप्रकारा भवति । प्रथमा पुष्पादिपूजा, आदिशब्दान्मुक्ताफलहारकनकमयछत्राद्याभरणानि चटाप्यन्ते । आभरणपूजा हि शाश्वती । यदुक्तम् म्लायन्ति पुष्पनिचयाः प्रहरार्धकेन वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः । जीर्यन्ति रम्यवसनान्यपि भूरिवर्षे नों जीर्यते युगशतैर्जिनरत्नपूजा ॥१॥ सप्तलक्षमनुष्यकलिते श्रीवस्तुपालसङ्के श्रीअनुपमदेव्या श्रीगिरनारे नीरप्रक्षालितस्वमलैः द्वात्रिंशद्रम्मलक्षाभरणैः श्रीनेमीश्वरः पूजितः, तदनुकोटिपुष्पैः। यदुक्तम् द्वात्रिंशता द्रम्मलक्षैरेकदा रैवताचले । नेमीश्वरस्याऽनुपमा पूजां चक्रे प्रमोदतः ॥१॥ जिनभक्तिहृष्टचेतसा तेजःपालेन द्वात्रिंशल्लक्षटङ्ककैस्तानि पुनर्नव्यानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93