Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् ।। अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः ॥५॥ सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ॥६॥ श्रमणानामियं पूर्णा सूत्रोक्ताचारपालनात् । द्रव्यस्तवादृहस्थानां देशतस्तद्विधिस्त्वयम् ॥७॥ न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसम्मत: ॥८॥ तत्र शुद्धां महीमादौ गृह्णीयात् शास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ।।९।। अप्रीति व कस्याऽपि कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ॥१०॥ आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इत्थं शुभाशयस्फात्या बोधिवृद्धिं शरीरिणाम् ॥११|| इष्टकादिदलं चारु दारु वा सारवत्रवम् । गवाद्यपीडया ग्राह्यं मूल्यौचित्येन यत्नतः ॥१२।। भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः । धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु ।।१३।। जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद्विम्बं साधिष्ठानं हि वृद्धिमत् ॥१४॥ विभवोचितमूल्येन कर्तुः पूजापुर:सरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥१५॥ लोकोत्तरमिदं ज्ञेय-मित्थं यद्विम्बकारणम् । मोक्षदं लौकिकं चाऽन्यत् कुर्यादभ्युदयं फलम् ॥१६।। इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाऽऽसैस्त्रिधोदिता । दिनेभ्योऽर्वाक् देशीयस्तु व्यक्तिक्षेत्रमहाह्वया ॥१७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93