Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 42
________________ December . 2003 ४९ कारितानि । पुनरपि शत्रुञ्जये तैराभरणैः मन्त्रितेजःपालधर्मपत्न्याऽनुपमदेव्या श्रीऋषभदेवप्रतिमा पूजिता, तदा देवरपत्नीकृताभरणपूजां विलोक्य मन्त्रिवस्तुपालधर्मपन्त्या ललितादेव्याऽपि द्वात्रिंशल्लक्षटङ्ककाभरणैः पूजिता, शोभनादास्या लक्षटङ्कमूल्यस्वाभरणैः पूजिता । वस्तुपालमन्त्रिणा सर्वासामधिकमूल्यानि (आभरणानि) कारितानि । एवं देवगिरीयसङ्घपतिधाइदेवेन मुक्ताफलप्रवालचुन्नीसुवर्णपुष्पादिभिः श्रीऋषभदेवप्रतिमाया आङ्गी कृता, तदनु नवलक्षचम्पकाएं । तथा 'जिनाज्ञा' सम्यग्मनसा पालनीया । तथा 'देवद्रव्यरक्षावृद्धिकरणं" जिनपूजैव । यदुक्तम् वड्दतो जिणदव्वं तित्थयरत्तं लहइ जीवो । भक्खंतो जिणदव्वं अणंतसंसारिओ भणिओ ॥१॥ भक्खणे देवदव्वस्स परत्थीगमणेण या । सत्तमं नरकं जंति सत्तवाराओ गोयमा ॥२॥ चेइयदव्वविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥३॥ तथाऽष्टाह्रिकास्नात्रोत्सवश्रीपर्युषणाकल्पचरित्रपुस्तकवाचनप्रभावनोत्सवाः क्रियन्ते, साऽपि जिनशासनोन्नतिहेतुत्वाज्जिनभक्तिरेव । यतः - प्रकारेणाऽधिकां मन्ये भावनातः प्रभावनाम् । भावना स्वस्य लाभाय स्वान्ययोस्तु प्रभावना ॥१॥ एवं तीर्थयात्रोत्सवादिः । इत्यादिप्रकारैः पुण्यवता जिनभक्ति: कार्या ।" इति उपदेशतरङ्गिणीटीकायाम् । आभरणपूजाया विशेषनिर्जराहेतुत्वं व्यवहारभाष्ये - पासाईया पडिमा लक्खणजुत्ता समत्तलंकारा । जह जह पल्हायइ मणं तह तह णिज्जमो वियाणाहि ॥१॥ सूत्रेऽपि 'आभरणारुहणंति' । अतः सालङ्कारा मूर्तिः विशेषनिर्जराहेतुरिति तु निष्कर्षः । न्यायाचार्यैरपि प्रमाणनयतत्त्वालोकालङ्कारे ‘पश्य पुरः स्फुरत्किरण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93