Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
५६
अनुसंधान-२६
बलवति, महति, पूज्ये ।
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राऽभ्यागतो गुरुः । इति पुराणम् । दुजरे, गुरुत्ववति च त्रिलिङ्गे । अत्र तु पूज्यादिर्यथायथम् ।
जैनदर्शने तु गुरवोऽनेके प्रतिपादितास्तथाऽपि उपदेशकमुनिरूपगुरुस्तु महाव्रतधरत्वादिगुणगणोपेत एव । यदाह
महाव्रतधरा धीरा भैक्षमार्गोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥१॥ धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः ।
सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥२॥ 'स्वयं परिहारः' इति श्रीहरिभद्रसूरिवचनात् यः सर्वारम्भादित्यागवान स एवोपदेशदानाधिकारज्ञ नेतर इति ज्ञेयम् ।
योगपूर्वसेवाधिकारे तु एवंविधोऽपि गुरुवर्गः प्रतिपादितस्तथा चाऽऽह
पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः ॥१॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥२॥ पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाश्रवणं नाम श्लाघोत्थानासनार्पणे ॥३॥ सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्था(र्थ)मनाबाध्य साराणां च निवेदनम् ॥४॥
(द्वात्रिंशद्वात्रिंशिका) 'अत्र स्वपुमर्थमनाबाध्येत्यनेन यदि तदनिष्टेभ्यो निवृत्तौ इष्टेषु च प्रवृत्तौ धर्मादयः पुरुषार्था बाधन्ते तदा न तदनुवृत्तिपरेण भाव्यम्' इति तट्टीकायाम् ।
तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेर्भयात् । तदासनाद्यभोगश्च तद्विम्बस्थापनार्चने ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93