Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003 तेषु उपपन्नेषु । "उपपन्नं ननु शिव" मिति रघुः । विधीयते इति 'उपसर्गादात: (।५।३।११०॥) इति 'श्रीसि०' सूत्रेण विपूर्वात् धाधातोः अङिविधा । "कर्म क्रिया विधा" इति हैमः । 'पाणिनीय' मते तु 'विध्-विदाने छिद्रकरणे छेदने च' तुदादिः पर० सक० सेट् । विधतीति विधा । विधधातोः कः अच्चेति विधः पुंस्त्रीलिङ्गः । "विधाने, गजभक्ष्याने, प्रकारे, वेधे, वृद्धौ, वेतने, वेधने, कर्मणि च" स्त्री० । अत्र तु प्रकारार्थः । तस्या विधा इव विधा-प्रकारो येषां ते तद्विधाः, तेषां तद्विधानाम्-महतामित्यर्थः । प्रसदनमिति प्रपूर्वात् सद्धातो वे घत्रि प्रसादः । "नैर्मल्ये, अनुग्रहे, काव्यगुणभेदे, स्वास्थ्ये, प्रसक्ते, देवनैवेद्ये, गुरुजनभुक्तावशिष्टे च" । अत्र त्वनुग्रहः । चाहयतीति चिह्नानि । 'दिन-नग्न-फेन-चिह्न-अध्न-धेनस्तेन-च्योक्नादयः' ॥२६८।। इति 'उणादिश्रीसि०' सूत्रेण चहेर्धातोरिदुपान्त्यो नान्तो निपातः । “चिहूं, लक्षणं लक्ष्म लाञ्छनम्; अङ्क: कलङ्कोऽभिज्ञानम्" इति हैम: । 'पाणि०' मते 'चिह्न-लक्षणे' अदादिश्चुरादिश्च उभ० सक० सेट्धातोरचि, यद्वा चहधातोर्नप्रत्यये उपधाया विकल्पेन इत्वे चिह्नयन्तीति चाहयन्तीति वा चिह्नानि । “चिह्न न० लाञ्छने लक्षणे च" । प्रसादस्य चिह्नानि-लिङ्गानिपूजास्वीकारादीनि प्रसादचिह्नानि । फलन्तीति फलम् । "लाभोऽधिकं फलम्" इति हैमः ।
फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्रासे व्युष्टिलाभयोः ।।
___इति अनेकार्थसङ्ग्रहः । 'पाणि.' मते तु 'फल्-निष्पत्तौ' भ्वादिः पर० अ० सेट्, ‘फल्भेदने गतौ च' भ्वादिः पर० स० सेट् । अत्र तु निष्पत्त्यर्थः । फलतीति फलधातोरचि फलम् । "फलं वृक्षादीनां सस्ये, लाभे, कार्ये उद्देश्ये, प्रयोजने, जातीफले, त्रिफलायां, कक्कोले, बाणाग्रे, फाले, दाने, मुष्के च; कुटजवृक्षे" पुंलिङ्गाः । स्वार्थादौ कनि फलकः (ढाल इति ख्याते) चर्ममयेऽस्त्रप्रतिघातनिवारके पदार्थे, अस्थिखण्डे, नागकेशरे, काष्ठादिपट्टके च पुंलिङ्गाः" । पुरफलानिपुरोगतानि प्रत्यासन्नानि फलानि येषां तानि पुरःफलानि । अविलम्बितफलसूचक१. अभि० चि० ५० १४९७ । ३. अभि० चि० तृ० ८६९ । २. अभि० चि० द्वि० १०६ । ४. अनेकार्थसङ्ग्रहे तृ० ४८७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93