Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 40
________________ December - 2003 ४७ एवं पात्रात्मिकायां सप्तक्षेत्र्यां धनं वपन् । दयया चाऽतिदीनेषु महाश्रावक उच्यते ॥ (इति योगशास्त्रे - ३-११९) एवं च वाचकवर्या अपि दानभेदयोरनुकम्पा-भक्तिविशेषितयोः स्वरूपमेवाऽऽचख्युः - ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ॥१॥ अनुकम्पाऽनुकम्प्ये स्याद्भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका ॥२॥ भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् ।।१।। शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् । सानुबन्धं न बघ्नाति पापं बद्धं च मुञ्चति ॥२।। भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्याऽपि दानं हि द्वयोर्लाभाय नाऽन्यथा ॥३॥ अथवा यो गृही मुग्धो लुब्धकज्ञातभावित: । तस्य तत्स्वल्पबन्धाय बहुनिर्जरणाय च ॥४|| इत्थमाशयवैचित्र्यादत्राऽल्पायुष्कहेतुता । युक्ता चाऽशुभदीर्घायुर्हेतुता सूत्रदर्शिता ।।५।। यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिविषयं वदेत् । तेनाऽत्र भजनासूत्रं दृष्टं सूत्रकृते कथम् ॥६|| शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नाऽनुकम्पया ॥७॥ अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया । तत्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथा परः ॥८॥ १. "एवं व्रतस्थितौ भक्त्या" । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93