Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 39
________________ ४६ अनुसंधान-२६ "अब्भुट्ठाणदंडग्गहणपायपुंछणासणपयाणगहणादीहि सेवा जा सा भत्ती भवइत्ति" निशीथचूर्णौ । 'भक्तिः उचितप्रवृत्त्या विनयकरणे' इति आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ। 'विनयवैयावृत्त्यादिरूपा प्रतिपत्तिर्भक्ति'रिति धर्मसङ्ग्रह द्वितीयाधिकारे । 'यथोचितबाह्यप्रतिपत्तौ' आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ गच्छाचारवृत्तौ धर्मरत्नवृत्तौ च । 'भक्तिरुचितोपचारः' इति दशवैकालिकनवमाध्ययनप्रथमोद्देशकवृत्तौ। ___ 'अभ्युत्थानादिरूपे बहुमाने' इत्युत्तराध्ययनप्रथमाध्ययनपाइयटीकायाम् । 'भत्ती आयरकरणं जहोचियं जिणवरिंदसाहूणं' इति संस्तारकप्रकीर्णके। 'अनुरागे भक्तिः' इति धर्मसंग्रहप्रथमाधिकारे । 'अन्तःकरणादिप्रणिधाने भक्तिः' इति आवश्यकद्वितीयाध्ययने दर्शनशुद्धौ च । 'भक्तिः स्यागुरुदेवादौ' इति वचनात्तु गुरुदेवादिविषयिणी इच्छा भक्तिः । अनुष्ठानचतुष्टये प्रीतिभक्तिवचनासङ्गात्मके तु भक्तिविशेषितानुष्ठानस्वरूपमिदम् गौरवविशेषयोगाच्छुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥१॥ इतरतुल्यमपीति प्रीत्यनुष्ठानसदृशमपि, तत्स्वरूपं च यथा यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥१॥ प्रीतिभक्त्योरियान् विशेषो दृष्टान्तद्वारेण अत्यन्तवल्लभा खल पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञानं स्थात्प्रीतिभक्तिगतम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93