Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 30
________________ December - 2003 ३७ मनि "धर्मः पुंनपुंलि० शास्त्रविहितकर्मानुष्ठानजन्ये, भाविफलसाधनभूते, शुभादृष्टे । 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः' । 'श्रुतिस्मृतिभ्यामुदितं यत् स धर्म' इत्युक्ते, श्रौते, स्मातें कर्मणि, 'विहितक्रियया साध्यो धर्मः पुंसां गुणो मतः' - इत्युक्ते, कर्मजन्ये, अदृष्टे, आत्मनि, 'देहधारणात्' जीवे, आचारे, वस्त्रगुणरूपे, स्वभावे, उपमायां, यागादौ, अहिंसायां, न्याये, उपनिषदि, यमे, सोमाध्यायिनि, सत्सङ्गे, धनुषि, ज्योतिषोक्ते, लग्नात् नवमस्थाने च; दानादौ नपुं०" । इह तु शुभादृष्टं धर्मो यमोपमापुण्यस्वभावाचारधन्वसुसत्सङ्गेर्हत्यहिंसादौ न्यायोपनिषदोरपि ! "धर्मं दानादिके" इत्यनेकार्थसङ्ग्रहः । पातीति पाधातोः 'पातेर्वा' ॥६५९॥ इति 'उ० श्रीसि०' सूत्रेण ङीप्रत्यये नान्तागमे च पत्नी । “अथ सर्मिणी पत्री सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: । अथवा 'पाणिनीय'मते [पत्यु! यज्ञसंयोगे ४।१।३३।। इति] पतिशब्दात् यज्ञसम्बन्धे ङीपि नुकि च पत्नी, पतिकृतयज्ञवत्यां विधिनोढायां योषिति । 'सिद्धहेममते धर्माय पत्नी, 'पाणि 'मते च धर्मस्य पत्नी धर्मपत्नी । पार्थिवस्य धर्मपत्री पार्थिवधर्मपत्नी, तया पार्थिवधर्मपत्न्या । प्रत्युद्गम्यते स्मेति प्रत्युद्गता । सा । धयति एनाम् धेनुः । तयोर्दम्पत्योरन्तरे तदन्तरे-मध्ये । अन्तरे इति सप्तम्यन्तप्रतिरूपकमव्ययम् । "मध्येन्तरन्तरेणान्तरेऽन्तरा" इति हैम: । अथवा 'पा०'मते अन्तरेति 'इण्' धातो: विचि अन्तरे(रं) यद्वा अनितीत्यन्तरं पुंक्लीबलिङ्गः । 'अनि-काभ्यां तरः" ॥४३७।। इति 'उ० श्रीसि०' सूत्रेण अन्धातो: 'तर' प्रत्यये अन्तरम् । "मध्यमन्तरे" इति हैम:' । 'पाणि० मते तु अन्तं राति-ददातीति राधातोः कप्रत्यये "अन्तरम् अवकाशे, अवधौ परिधानांशुके, अन्तर्धाने, भेदे, परस्परवैलक्षण्ये, विशेषे, तदर्थे, छिद्रे, आत्मीये, विनार्थे, बहिरर्थे, व्यवधाने, मध्ये, सदृशे च ।" तयोरन्तरं तदन्तरं, तस्मिन् तदन्तरे । दीव्यति रविरत्र द्यति तम इति वा दिनम् । क्षिप्यते इति 'भिदाद्यङ् (दय:)' (५।३.१०८॥) इति 'श्रीसि०' सूत्रेण क्षिप्धातोरङि क्षपा । "निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा त्रियामा यामिनी भौती तमी १. अनेकार्थसङ्ग्रहे द्वि० ३२० । २. अभि० चि० तृ० ५१२-१३ । ३. अभि० चि० ष० १५३८ । ४. अभि० चि० ष० १४६० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93