Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 36
________________ December - 2003 (७।१।१९२॥) इति 'श्रीसि० सूत्रेण उत्सुशब्दात् अस्येत्युन्मनस्यभिधेये कप्रत्यये उत्सुकः । "उत्कस्तूत्सुक: उन्मनाः उत्कण्ठितः" इति हैमः । "पाणिनीय' मते तु उत्सुकरित्रलिङ्गः । उत्पूर्वात् सूधातोः विप्कनि ह्रस्वे उत्सुकः । "इष्टार्थसंपादनायोद्युक्ते, अभीष्टो गमिष्यतीति उत्कण्ठान्विते च ।" वत्से उत्सुका वत्सोत्सुका । अपि अव्ययं-न पीयति गच्छतीति 'पि-गतौ' धातो: क्विप् न तुक् । "अशक्यकरणायोद्यमरूपायां, शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायां वा, संभावनायां, स्नेहे, निन्दायां, प्रश्ने, समुच्चये, अल्पपदार्थे, कामचारानुज्ञायाम्, अवधारणे, पुनरर्थे च" । अत्र तु पुनरर्थे । स्ववत्सदर्शनोत्कण्ठिताऽपि । स्तिम्यति स्मेति स्तिमिता । “तिमिते स्तिमितक्लिन्नसााोन्नां समुत्तवत्" इति हैमः । 'पाणि०' मते तु "स्तिमित' नपुंलिङ्गाः । स्तिम्धातोः भावे क्तः । “आर्द्रतायाम्, अचाञ्चल्ये च" । कर्तरि क्तः, "अचञ्चले आर्दे च त्रिलिङ्गः" अत्र त्वचञ्चलार्थः । स्तिमिता निश्चला सती। __'सपर्-पूजायाम्' इति कण्ड्वादिधातो: 'धातोः कण्ड्वादेर्यक्' (३।४।८॥) इति 'श्रीसि०' सूत्रेण यकि 'शंसिप्रत्ययात्' (५।३।१०५॥) इति 'श्रीसिo' सूत्रेण 'अ'प्रत्यये आपि सपर्या । "पूजार्हणा सपर्याऽर्चा" इति हैमः । “पूजा त्वपचितिः" इति हैमशेषः । “पूजा नमस्याऽपचितिः सपर्याऽर्चाहणाः समाः" इत्यमरः । 'पा०' मते तु सपरधातो: यकि अप्रत्यये टापि च सपर्या पूजायाम्।' सोऽहं सपर्याविधिभाजनेने"ति अग्रे रघौ । ताम् सपर्याम्-पूजाम् । प्रत्यग्रहीत्स्वीचकार । इण्धातोः क्तिचि । इतीति अव्ययं, "हेती, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, प्रकर्षे, उपक्रमे च ।" अत्र तु हेतुरर्थः । इति-हेतोः । वत्सावलोकनौत्सुक्येऽपि निश्चलभावेन पूजास्वीकारात् हेतोः इति भावः । १. अभि० चि० तृ० ४३६ । २. अभि० चि० १० १४९२ । ३. अभि० चि० तृ० ४४७ । ४. अभि० चि० हैमशेषे - १०५ । ५. अम० द्वि० ब्रह्मवर्गे - १४२१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93