Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 34
________________ December - 2003 ४१ केशहस्तः । अत्र तु देहावयवभेदो हस्तः । साक्षातपात्रौ हस्तौ यस्याः सा साक्षतपात्रहस्ता । अथवा अक्षतैः सह वर्तमानं साक्षतम् । साक्षतं पात्रं हस्तयोः यस्याः सा साक्षतपात्रहस्ता । यदि वा सा इति व्यस्तं, अक्षतपात्रं हस्तयोः यस्याः सा अक्षतपात्रहस्ता । सा सुदक्षिणा । प्रशस्तं पयोऽस्त्यस्याः सा, पयःशब्दात् प्रशस्ते विनि ङीपि च पयस्विनी, तां पयस्विनीम्-प्रशस्तक्षीराम् । तां धेनुम् । प्रदक्षिणीकृत्य-परिक्रम्य । प्रणम्य च । अस्याः धेन्वा: 'वेविस्तृते शालशङ्कटौ (७१।१२३।।) इति 'श्रीसि० सूत्रेण विशालं विशङ्कटं साधू । “विशालं तु विशङ्कटम्, पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद् गुरु" इति हैम:। “विशङ्कटं पृथु बृहत् विशालं पृथुलं महत्" इत्यमरः । शृणातीति शृङ्गम्- 'शृङ्गशाादयः ।।९६॥ इति 'उणादिश्रीसि०'सूत्रेण शृधातोर्गान्तो निपातः । “विषाणं कूणिका शृङ्गम्" इति हैम:। शीर्यते निर्घातेनेति वा शृङ्गम्-शिखरम् । "शृङ्गं तु शिखरं कूटम्" इति हैमः। अथवा शृधातोर्गाने पृषोदरादित्वान्मुमागमे इस्वे च "शृङ्गं न० पर्वतोपरिभागे, प्राधान्ये, चिह्ने, जलक्रीडार्थयन्त्रभेदे, 'पीचकारी'ति लोकप्रसिद्धे, कामोद्रेके, पश्वादेविषाणे, महिषशृङ्गनिर्मितवाद्यभेदे, उत्कर्षे, ऊचे, तीक्ष्णे, पद्मे च; कूर्चशीर्षकवृक्षे च पुं०" । अत्र तु शृङ्गं विषाणम् । शृङ्गयोरन्तरं शृङ्गान्तरम्, शृङ्गमध्यदेशं ललाटपट्टमिति यावत् । अर्यतेऽसौ अर्थः । 'कमि-प्र-गार्तिभ्यस्थः' ॥२२५॥ इति 'उणादिश्रीसि०' सूत्रेण ऋधातोः थः । अथवा अर्थ्यते इति अर्थः । "कार्यं स्यादर्थः कृत्यं प्रयोजनम्" इति हैमः । अथवा 'अर्थ-याचने' अदादिः चुरादिः आत्म० द्वि० सेट्, अर्थयते आतिथत् मतान्तरे अर्थापयते आर्तथापत इति "अर्थः पुंभावकर्मादौ, यथायथं अच्विषये, अभिधेये, धने, वस्तुनि, प्रयोजने, निवृत्तौ, हेतौ, प्रकारे, अभिलाषे, उद्देश्ये तु" । अत्र तु प्रयोजनमुद्देश्यमित्यादि यथायोगम् । १. अभि० चि० १० १४२९-३० । २. अन० तृ० विशेष्यनिघ्नवर्गे - २१४५ । ४. अभि० चि० च० १०३२ । ३. अभि० चि० च० १२६४ । ५. अभि० चि० १० १५१४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93