Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२६
सिद्ध्यति अस्यामिति सिद्धिः इति हैम: । अथवा सेधनं सिद्धिरिति सिध्धातो: क्तिनि (क्तौ) "सिद्धिः ऋद्धिनामौषधे, (दुर्वायाम्) योगेभेदे ऽन्तर्धाने, निष्पत्तौ पाके, पादुकायां, मोक्षे, वृद्धौ, सम्पत्तौ अणिमाद्यष्टविधैश्वर्ये, बुद्धौ, साध्यवत्तया निश्चये, दक्षकन्याभेदे च ।" अत्र तुः निष्पत्तिः । अर्थस्य सिद्धिः अर्थसिद्धिः, तस्याः अर्थसिद्धेः कार्यनिष्पत्तेः ।
४२
उभ्यते पूर्यते इति द्वारम् । 'द्वार-शृङ्गार- भृङ्गार- कल्हार- कान्तार- केदारखारडादयः || ४११|| इति 'उणादिश्रीसि० ' सूत्रेण 'उम्भत् पूरणे' इतिधातो: द्वादेशे आरप्रत्यये च द्वारम् । द्वारयतीति वा तत्र द्वारम् । "वलजं प्रतीहारो द्वाद्वरि" इति हैर्म: । 'पाणि० 'मते तु द्वारं न० । दूधातोर्णिचि अचि च "द्वारं गृहादिनिर्गमनस्थाने, प्रतीहारे, उपाये, मुखे च" । अत्र तु द्वारं प्रवेशमार्गम् । इव। आनर्चअर्चयामास - पूजयामास इति यावत् । अर्चते: भौवादिकात् परोक्षा, 'पाणि० ' मते लिट् ॥
--
वाच्यपरिवर्तनं त्वेवम् - साक्षतपात्रहस्तया सुदक्षिणया तां पयस्विनीं प्रदक्षिणीकृत्य प्रणम्य चाऽस्या विशालं शृङ्गान्तरमर्थसिद्धेः द्वारमिवाऽऽनर्थे ॥ ततः सुदक्षिणा तन्दुलादिसहितमर्घभाजनमादाय शुभ्रक्षीरां तां गां प्रथमं प्रदक्षिणक्रियया सन्मानितां चकार; पश्चाच्च तां प्रणम्याऽर्थसिद्धेः प्रवेशमार्गमिव तस्याः शृङ्गयो: मध्यस्थानमर्घ्यदानेन पूजितवती, इति सरलार्थः ॥२१॥
वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि ॥२२॥
21
7
वत्सेति । सा धेनु: - वदति मातरं दृष्ट्वेति वत्सः । 'मा-वा- वद्यमिकमि-हानि-मानि-कष्यशि-पचि-मुचि-यजि-वृ-तृभ्यः सः ॥५६४ ॥ इि 'उणादिश्रीसि० ' सूत्रेण वदिधातोः से वत्सः । "वत्सः शकृत् करिस्तर्णः" इति हैम: : । वदत्यनेनेत्यपि वत्सः पुंक्लीबलिङ्ग: । "क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् इति हैम: । उत्सुमद्गतं मनो अस्य उत्सुकः । ' उदुत्सोरुन्मनसि '
१. अभि० चि० च० १००४ | २. अभि० चि० च० १२६० । ३. अभि० चि० तृ० ६०२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93