Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 32
________________ December - 2003 ३९ ध्यै धातोरङि सन्धिः । सन्धिशब्दात् 'भवार्थे यति वेति" सन्ध्या ।। एकरूपकालोत्तरभाविपररूपकालस्याऽवकाशे, दिवारात्रस्य मध्यवत्तिकाले । स च दिवाशेषदण्डसहितरात्रिप्रथमदण्डात्मकः काल: । तयोश्चतुर्दण्डात्मककालश्च । "त्रियामां रजनी प्राहुस्त्यक्त्वाऽऽद्यन्तचतुष्टये । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते'' ॥ इति स्मृतिः । "अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः । सा च सन्ध्या समाख्याता" ! इति स्मृतिः । "सायाह्ने सन्ध्याकाले उपास्यदेवताभेदे । तदुपासना-याञ्चा । सन्ध्यामुपासते ये तु, नियतं शंसितव्रताः ।।" इति स्मृति: । "प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत्" । इति स्मृतिः । चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च प्रकीर्तितः ॥ इत्युक्ते, युगसन्धिकाले, नदीभेदे, ब्रह्मपत्नीभेदे, चिन्तायां, संश्रवे, सीमायां, सन्धाने च'' । अत्र तु दिवारात्रस्य मध्यकालः सन्ध्या । इव- 'इवि-व्याप्तौ' धातो: कप्रत्यये इव अव्ययं सादृश्ये उत्प्रेक्षायां ईषदर्थे वाक्यालङ्कारे च । इह तु उत्प्रेक्षायाम् । विरराज-शुशुभे ।। वाच्यपरिवर्तनं त्वेवम् - वर्त्मनि पार्थिवेन पुरस्कृतया पार्थिवधर्मपल्या च प्रत्युद्गतया तया धेन्वा तदन्तरे दिनक्षपामध्यगतया सन्ध्ययेव विरेजे ।। मार्गे महिषी धेनोरग्रतः पश्चात् दिलीपश्च यथा दिननिशयोः मध्ये स्थिता (किसलयरागारुणा) सन्ध्या चकास्ति तथैव तयोः सुदक्षिणादिलीपयोर्मध्येऽवस्थिता नन्दिन्यपि दिदीपे, इति सरलार्थः ॥२०॥ प्रदक्षिणीकृत्य पयस्विनी तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चाऽऽनर्च विशालमस्याः शृङ्गान्तरं द्वारमिवाऽर्थसिद्धेः ॥२१॥ प्रदक्षिणीकृत्येति । न क्षप्यन्ते इत्यक्षता: पुंक्लीबलिङ्गः । पुंसि अयं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93