Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
[सि०] सूत्रेण जान्यादेशे अरुन्धतीजानिः । "वशिष्ठोऽरुन्धतीजानिः" इति हैमः । वसिष्ठस्य धेनुः वसिष्ठधेनुः, तस्याः वसिष्ठधेनोः । अनुयातीति अनुयायी, तम् अनुयायिनम्-अनुचरम् । वनस्याऽन्तः वनान्तः, तस्माद् वनान्तात् । आवर्ततेऽसौ आवर्तमानः, तम् आवर्तमानं-प्रत्यागतम् । तं-दिलीपम् । वन्यते-भज्यते स्म वनिता-सुदक्षिणा । "स्त्री नारी वनिता वधूः, वशा सीमन्तिनी वामा, वर्णिनी महिलाऽबला, योषा योषित्' इति हैम: ।
'पच्यते विस्तीर्यते सात्मनात्मन् ॥९९६।। इति 'औणादिश्रीसि०' सूत्रेण मनि निपातने, पक्ष्म पुंक्लीबलिङ्गः । "पक्ष्म स्याद् नेत्ररोमणि" इति हैम: । पञ्च्यते इति पङ्क्तिः । "राजिर्लेखा ततिर्वीथी, मालाल्यावलिपङ्क्तयः, धोरणी श्रेणी" इति हैम:' । पक्ष्मणां पङ्किः पक्ष्मपङ्कि । निमेषेषु । निमेषणानि निमेषाः । "निमेषस्तु निमीलनम्" इति हैम: । न लसतीत्यलस: अलतीति वा तप्यणिपन्यल्यपि-रधि-नभि-नम्यमि-चमि-तमि-चट्यति-पतेरसः ।।५६९। इति 'औणादिश्रीसि०'सूत्रेणाऽसि अलसः। "अथाऽऽलस्यः शीतकोऽलसः, मन्दस्तुन्दपरिमजोऽनुष्णः" इति हैम:६ । अलसा पक्ष्मपङ्क्तिर्यस्याः सा निमेषालसपक्ष्मपङ्क्तिः -निर्निमेषा सतीत्यर्थः । लोच्यते आभ्याम् लोचने । "चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमः । लोचनाभ्यां-करणाभ्याम् । उपवसत: स्मेति उपोषिते, ताभ्याम् उपोषिताभ्यांबुभुक्षिताभ्याम् । वसतेः कर्तरि क्तः । उपवास:-भोजननिवृत्तिः । इव । पपौपीतवती । यथोपोषितोऽतितृष्णया जलमधिकं पिबति, तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः ।
अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथः चतुर्विधाहारत्यागरूप एव वास्तव उपवासः, न तु फलाहाररूपः इति ज्ञापयति । उपवासो भोजननिवृत्तिरिति व्याख्यानेन च विधाहारत्यागरूपस्याऽप्युपवासत्वं सङ्गच्छत एव । अनेन जैनमते यत् त्रिधाहारत्यागरूपं चतुर्विधाहारत्यागरूपं वोपवासरूपं (तत्) सङ्गतिमियति । चतुर्विधाहारत्यागरूप उत्कृष्टः, त्रिधाहारत्यागरूपो जघन्यः । फलाहारकरणे तु १. अभि० चि० त० ८४९ । २. अभि० चि० तृ० ५०३-४ । ३. अभि० चि० तृ० ५८० ।
४. अभि० चि० १० १४२३ । ५. अभि० चि० तृ० ५७८ ।
६. अभि० चि० तृ० ३८३-८४ । ७. अभि० चि० तृ० ५७५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93