Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December - 2003
२१ "खगबाल्यादिनोर्वयः' इत्यमरः । विरवणानीति वा वि-उपसर्गपूर्वात् 'ह' धातोर्घजि विरावः पु० । विरूयन्ते इति विरावाः, तैः विरावैः - शब्दैः । आलोक्यते इति आलोकः, आङ्-उपसर्गपूर्वात् 'लोकृ' धातोर्घत्रि आलोकः । 'आलोको दर्शने, उद्योते, बन्दिनामालोकयेत्यादिस्तुतिवाक्ये" । आलोकनं वाऽऽलोकः । आलोकस्य शब्द:-वाचक: आलोकशब्दः, तमालोकशब्दम्; अथवाऽऽलोकश्चाऽसौ शब्दश्चाऽऽलोकशब्दः, तम् आलोकशब्दम्। आलोकयेति शब्दं राजोचितं जयशब्दमित्यर्थः । "आलोको जयशब्दः स्यात्" इति विश्वः । उदीरयामासुरिवाऽवदनिवेत्युत्प्रेक्षा । तल्लक्षणं चेदं 'कुवलयानन्दे'
संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मनाम् । उक्तानुक्तास्पदाऽद्यात्र सिद्धासिद्धास्पदे परे ।।१।। अन्यधर्मसम्बन्धनिमित्तेनाऽन्यतादात्म्यसम्भावनमिति भावः ।
वाच्यपरिवर्तनं त्वेवम्- पार्श्वद्रुमैः उन्मदानां वयसां विरावैः विसृष्टपार्खानुचरस्य पाशभृता समस्य तस्याऽऽलोकशब्द उदीरयामासे इव ।।
यथा राजमन्दिरे चतुष्पथादौ च सेवकाः प्रजाजनाश्च मङ्गलध्वनिभिः तं संवर्धयन्ति स्म तथाऽरण्येऽपि तन्निकटवर्तिनस्तरवः पार्श्वचरविहीनं वरुणवत्प्रभावशालिनं तं नृपं मत्तखगकुलकूजितरूपेण जयशब्देन संवर्धयामासुः, इति सरलार्थः
॥९॥
द्वाभ्यां युग्मं, त्रिभिविशेषकं, चतुरादिभिः कलापकं, पञ्चादिभिः कुलकमिति कृत्वाऽतः प्रभृति षड्भिः श्लोकैः कुलकेनाऽऽह ।
पूर्वश्लोके पार्श्वद्रुमाः सत्कारं चक्रुरस्मिंश्च बाललता, इति तत्सत्कारसमुच्चयार्थश्च शब्दः ।
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमय॑मारादभिवर्तमानम् । अवाकिरन् बाललताः प्रसूनै-राचारलाजैरिव पौरकन्याः ॥१०॥
मरुत्प्रयुक्ताश्चेति । प्रयुज्यन्ते स्मेति प्रयुक्ताः । मरुता प्रयुक्ता मरुत्प्रयुक्ताः वायुना प्रेरिताः । बालाश्च ता लताश्च बाललता:-कोमलवल्लयः । आरात्समीपे
१. अम० तृ. नानार्थवर्गे - २७९६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93