Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२६
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबहिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥१७॥
स पल्वलेति । यद्यपि नानाशक्यतावच्छेदकधर्मत्वे शक्तौ सन्देहः, तथाऽपि शक्यतावच्छेदकतावच्छेदकैक्ये न शक्तौ सन्देहः इति नैयायिक- निष्कर्षः । एवं च तच्छब्दस्य बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेन शक्यतावच्छेदकतावच्छेदकरूपस्य उपलक्षणीभूतबुद्धिस्थत्वधर्मस्यैकत्वेन तत्पदशक्तौ न सन्देहः । अत्र तच्छब्देन दिलीपत्वस्य बुद्धिस्थत्वात् तच्छब्देन दिलीप एव ग्राह्यः । स दिलीपः ।
उत्तीर्यन्ते स्मेति उत्तीर्णानि । वरायाऽभीष्टाय मुस्तादिलाभायाऽऽहन्तिखनन्ति भूमिम् इति वराहः, आपूर्वात्(हन्) धातो: 'ड:' । “शूकरे स्त्रियां ङीप, यज्ञवराहाख्ये, विष्णोरवतारभेदे पुं० पर्वतभेदे, मस्तके, शिशुमारे, वाराहीकन्दे, भानभेदे, द्वीपभेदे च" । वराहाणां यूथानि वराहयूथानि । पल्यतेऽसाविति 'पल्गतौ' पल्धातो: 'शमिकमिपलिभ्यो वलः' ॥४९९॥ इति औणादिके बले पल्वल: पुंक्लीब: । "वेशन्तः पल्वलोऽल्पम्" इति हैमः' । अल्पं-सरः । पल्वलेभ्योऽल्पजलाशयेभ्यः उत्तीर्णानि-निर्गतानि वराहयूथानि येषु तानि पल्वलोत्तीर्णवराहयूथानि । बर्हाणि सन्ति येषां बर्हिण: । "मयूरो बर्हिणो बही इत्यमरः । फलबर्हाभ्यामिनच् प्रत्ययो वक्तव्य: । आ समन्ताद् वसन्ति लोका येषु ते आवासा: । आवासानां वृक्षाः आवासवृक्षाः । उत्-ऊर्ध्वं मुखं येषां ते उन्मुखाः । आवासवृक्षाणां उन्मुखा बहिणो येषु तानि आवासवृक्षोन्मुखबर्हिणानि ।
निशादाः बालतृणानि शष्पाणि विद्यन्ते एषु ते शाद्वलाः । 'नडशादाद्वलः' (६।२।७५॥) इति 'श्रीसिहेश' सूत्रेण ङित्वलप्रत्ययः 'नडशादाद व(ड्व)लच् [४।२१८८॥] इति 'पाणिनीय' सूत्रेण ड्वलचि [शाद्वलः ।] "शाद्वल: शादहरिते शादः कर्दमशष्पयोः" इति विश्वः । “शष्पकर्दमयो: शादः" इति शाश्वत: । अध्यास्यन्ते स्मेति अध्यासिताः । मृग्यन्ते व्याधैरिति मृगाः । मृगैः अध्यासिताः शाद्वलाः येषु तानि मृगाध्यासितशाद्वलानि ।
___वराहबर्हिणशष्पादिपलिनिम्नाऽश्यामानि श्यामानि भवन्तीति-श्यामाय१. अभि० चि० चतु० १०९५ । २. अम० द्वि० सिंहादिवर्गे - १०४७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93