Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
२२
अनुसंधान-२६ "आरात् दूरसमीपयोः" इर्त्यमरः । अभिवर्ततेऽसौ अभिवर्तमानस्तम् अभिवर्तमानम्। मरुतो-वायोः सखा मरुत्सखः । अत्र 'राजन्सखेः' (७।३।१०६।।) इति 'श्रीसिव्हेश०' सूत्रेण सखिशब्दाद् 'अट् समासान्तः । 'राजाहः सखिभ्यष्टच' [५।४।९१।।] इति पाणिनीयसूत्रेण च टचि । 'अवर्णेवर्णस्य' (७।४।३८।।) इति 'श्रीसि०हे०श०' सूत्रेण इकारलुकि मरुत्सखः । 'यस्येति चे(च) [पा० ६।४।१४८] सूत्रेण इकारलोपे मरुत्सखः । आभानमिति आभा । मरुत्सखस्याऽऽभेव आभा यस्य स मरुत्सखाभः, तं मरुत्सखाभम् । 'उपसर्गादात:' (५।३।११०॥) इति श्री सिव्हे०श०' सूत्रेण ङि(अङि) आभा। 'आतश्चोपसर्गे' [३।३।१०६।।] इति 'पा०' सूत्रेणाप्रत्यये आभा ! अर्चयितुं योग्य: अर्घ्य:, तम् अर्ध्य-पूज्यम् । तं दिलीपम् । प्रसूयन्ते स्मेति प्रसूनानि, तैः प्रसूनैः । 'घूङौच्-प्राणिप्रसवे' इति 'श्री सिव्हे०श०' धातुपाठपठितस्य दिवादिधातोः क्तप्रत्यये, क्तस्य च 'सूयत्याद्योदितः' (४।२।७०) इति 'श्री सि०हे०श०' सूत्रेण नत्वे प्रसूनानिकुसुमानि । पाणिनीयमते तु 'धुंग्-प्राणिप्रसवे' तकर्मणि (तृतीया कर्मणि) [६।२।४८॥] इति 'क' प्रत्यये 'स्वादय ओदित' 'इत्युक्तत्वात् 'ओदितश्च' [८।२।४५॥] इति निष्ठान्तस्य नत्वे 'यस्य विभाषा' [७।२।१५॥] इति इडभावे भिसि प्रसूनैः । अत एवाऽन्येऽयम-प्राणिप्रसवे इतीच्छन्तीति पूज्याः ।
अदादिगणपठितस्य 'घूङौक्-प्राणिगर्भविमोचने' इत्यस्य नेदं रूपं, तदर्थासम्भवात् । तुदादिपठितस्य 'घूत्-प्रेरणे' इत्यस्याऽपि न, तदर्थासम्भवात उदितत्वाभावेन नादेशाभावाच्च । 'पाणिनीय' मतेऽपि 'पूड्' इति दिवादिधातोरेवेदं रूपम् । तन्मते 'स्वादय ओदित' इत्योदितत्वात् 'ओदितश्चेति सूत्रेण तस्य नादेशः । अदादि-तुदाद्योरोदितत्वाभावेन तस्य नत्वाभावात् तदर्थासम्भवाच्च न तयो रूपम्।
पुरे भवाः पौराः । कनन्ति कन्यन्ते वा इति कन्याः । पौराश्च ताः कन्याश्च पौरकन्याः, अथवा पौराणां कन्याः पौरकन्याः । श्रीसि०हेश०' मते "हितादिभिः' (३१७१॥) इति सूत्रेण तादर्थ्यचतुर्थ्यन्तसमासे, आचरणम् आचारः, आचाराय लाजा: आचारलाजा: तै: आचारलाजैः । लज्ज्यन्ते भृज्ज्यन्त इति लाजाः । लाजाशब्दो नित्यं बहुवचनान्त: । पाणिनीयमते तु अश्वघासादिवत् १. अम० तृ० नानार्थवर्गे - २८२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93